________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પર
Acharya Shri Kailassagarsuri Gyanmandir
स्वगच्छे व्यवहारेण, वर्तिनां समभावतः कषायमुक्तितो मुक्ति, र्भवेत्तत्र न संशयः ॥ ६०७ || श्वेताम्बरमतेमुक्ति, स्तथा दैगम्बरे मते सर्वकषायमुक्तानां समशुद्धोपयोगिनाम् ||६०८ || वैष्णवानाञ्च शैवानां, बौद्धानां खोस्तिधर्मिणाम् : महंमदीयलोकानां भवेन्मोक्षः समत्त्वतः ॥ ६०९ ||
"
रागद्वेषपरीणाम -, कषायत्यागमन्तरा; सर्वधर्ममनुष्याणां, मोक्षः कदाऽपिनोभवेत् ॥ ६१० ॥ उपयोगेन धर्मोऽस्ति, बन्धोऽस्ति परिणामतः अधर्मोऽनुपयोगेन, क्रियातः कर्मबन्धनम् ॥ ६११ ॥ कर्मबन्धनकर्त्रीस्याद्, रागद्वेषयुक्ता क्रिया;
कर्मबन्धनमुक्त्यर्थं क्रिया स्वाऽऽत्मोपयोगिनी ॥ ६१२ ॥
सम्यग्दर्शनयुक्तानां प्रशस्यपरिणामतः
अल्पोऽस्तिकर्मणांबन्धो, जायते निर्जराभृशम् ||६१३॥
स्वल्पदोषमहाधर्म, विज्ञाय सर्वकर्मसु सम्यग्दर्शनिजैनानां, वर्तनञ्च भवेत्सदा ॥६१४॥
त्यागिनाञ्चगृहस्थानां, सम्यग्दर्शनधारिणाम् ; आत्मोपयोगिनां सर्वाः प्रवृत्तयश्च मुक्तये ।। ६१५ ।।
सम्यग्दर्शनयुक्तानां, पारम्पर्येण मुक्तये; गार्हस्थ्ययोग्यकर्माणि भवन्त्याऽऽत्मोपयोगिनाम् ॥६१६ ॥ पञ्चवर्णीयमृद्भोक्ता, शङ्खः स्वपरिणामतः
स्वयंश्वेतो भवेन्नूनं, तथा सम्यक्त्त्ववान्जनः ॥ ६१७|| सविषोऽस्तियथा सर्पों, लोकानां प्राणनाशकः
तथा मिथ्यात्वयुक्तोऽस्ति, जीवः स्वाऽन्यविनाशकः । ६१८ ।।
For Private And Personal Use Only