________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
પદ્મ
ज्ञातं येन स मुक्तः स्यात्, सम्यग्दर्शननिश्चयात्; आत्मोपयोगलीनत्वं प्राप्यते ज्ञानयोगिभिः ॥५९५ ॥ मोहादिसर्ववृत्तीनां लयो मोक्षो भवेत् खलु; महावीरस्यनाम्ना त्वं, वीरे लीनो भवद्रुतम् ॥ ५९६ ॥ स्वयंभव महावीरो, वीराद्वीरः प्रकाशते; सत्तयाऽऽत्ममहावीरो, व्यक्तःसो भवतिध्रुवम् ॥ ५९७ ॥ सत्वरजस्तमोवृत्ति, महप्रकृतिरेवसा; प्रकृतेभिन्नमाऽऽत्मानं, पुरुषमेव बोधत ॥ ५९८ ॥ आत्मनोऽसङ्ख्यनामानि तैराऽऽत्मानंविचारय; त्वत्तः प्रकाशते विश्वं, स्वाऽऽत्मानंविद्धिसत्प्रभुम् ॥५९९ ॥ मां नय तमसो ज्योतिः परंब्रह्मजिनेश्वर !! आत्माब्रूते निजाऽऽत्मान, मलक्ष्यो नैव लक्ष्यते ॥ ६०० || आत्मोपयोगतोलक्ष्योs - लक्ष्य आत्मा निजाऽऽत्मना अनुभवी विजानाति, स्ववेद्योऽहं चिदाऽऽत्मना ॥ ६०१ ॥ आनन्दज्ञानरूपोऽस्ति, सर्वजीवस्तथाऽऽत्मनः ज्ञाता आत्मोपयोगेन, शुद्धनिश्चयबोधतः ॥ ३०२ ॥ एकाssस्मा संग्रहणस्या, चित्सत्तातः प्रवेदक: आत्मसत्तोपयोगेन, सद्ब्रह्मैक्यं प्रवेद्यहम् ||६०३|| सिद्धदेवसमाः पूर्णा, आत्मानः सन्ति सत्तया; आत्मोपयोगतः सिद्धो - भविष्यामि न संशयः ॥ ६०४॥ गच्छादिसम्प्रदायानां चर्चासु न पतेत् सुधीः सर्वगच्छेषु मोक्षोऽस्ति, साम्योपयोगतो ध्रुवम् ||६०५|| गच्छादिमतभेदानां, मोहान्मुक्तिर्न जायते मुक्तिः कषायमुक्त्याऽस्ति, साम्यात् कषायमुक्तता ।६०६ ।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only