________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
निर्विषोऽस्ति यथा सो, दंशन नाऽन्यविनाशक: सम्यग्दर्शनवान्जीव, स्तथास्वाऽन्याऽविनाशकः ॥६१९॥ पञ्चेन्द्रियैर्भवेद्भोगी, सम्यग्दर्शनवान् जनः आत्मशुद्धोपयोगेन, स्वाऽल्पबन्धश्च मुक्तये ।।६२०।। पशूनां रक्षणं काय, पक्षिणाश्चविशेषतः यतना सर्वकार्येषु, कार्य स्ववीर्यरक्षणम् ॥६२१॥ अन्नंजलञ्चवस्त्रञ्च, देयं तदर्थिने शुभम् ; यत्काले यच्चयोग्यं स्या, त्तदेयं मुक्तिकामिभिः ॥६२२॥ मनोवाकाययोगानां, बलवृद्धिश्चरक्षणम् : आरोग्यहि सदारक्ष्यम् , नारीभिश्चनरैर्धवम् ॥६२३॥ आत्मशुद्धोपयोगाय, आन्तरा बाह्यशक्तयः प्राप्तव्याः सर्वथोपाय, वृद्धयुवकबालकैः ।।६२४॥ आजीविकादिसद्यत्नै, ह्यिदेहादिजीवनम् ; धार्यसर्वजनैः सम्यग, शुद्धोपयोगहेतवे ॥३२॥ देहादिजीवनोपायै, र्जीव्यस्वाश्रयिभावतः स्वतंत्रंजीवनंधार्य, निर्दोषमाऽऽत्मशुद्धिकृत् ॥६२६॥ क्षात्रकर्मचसद्विद्या, कृषिापारकर्मच; सेवा चेतैगृहस्थैर्हि, जीव्यमाऽऽत्मोनतेः कृते ।।६२७|| आन्तरंजीवनं पोष्यं, प्रामाण्यस्वोद्यमादिकैः आत्मोपयोगशुड्यर्थ, सत्त्वजीवनकारणम् ॥६२८।। रोगिभ्यऔषधादीनां, दानं शक्त्यऽनुसारतः विद्यादानश्च बालेभ्यो, देय माऽऽत्मोपयोगिभिः ॥६२९॥ गृहाऽऽगतस्यसत्कारः कर्तव्यो भोजनाऽऽदिभिः आपत्कालेचदुर्भिक्षे, कर्तव्यं लोकपालनम् ॥६३०॥
For Private And Personal Use Only