________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मनोऽनन्त सामर्थ्य, मात्मन्येवस्फुटं भवेत् ; कायादिमिश्रवीर्यात्स्वं, भिन्न शुद्ध महबलम् ॥५५९॥ आत्मवोर्येणदेहस्य, सन्ति कम्पादिकाः क्रियाः आत्मान मन्तरादेहो, मृतो भवति निश्चलः ॥५६०॥ आत्मानमन्तरादेहे-, ज्ञाता कोऽपि न विद्यते; देहस्थोऽपि न देहोऽसौ, देहोमे ज्ञानवाँश्वसः॥५६१॥ स्थूलः कृशश्चमेदेहो, ज्ञाता भिन्नोऽस्तिदेहतः गृहाद्गृहीयथाभिन्न, स्तथाऽऽत्मादेहसंस्थितः ॥५६२॥ देहयोगेन यो देही, नष्टे देहे न नश्यति: आत्माऽस्तिदर्शनज्ञान-, चारित्रगुणवानस्वयम् ॥५६॥ आत्मानःसङ्ख्ययाऽनन्ता, भिन्नाः प्रतिशरीरिणः अनादिकालतःकर्म-, सङ्गिनः शाश्वताऽव्ययाः ॥५६४॥ सर्वकर्मविनाशाद्यो जीवो मुक्तो भवेत्प्रभुः आत्मा पराऽऽत्मतां याति, सिद्धोबुद्धो भवेद्विभुः ॥५६५॥ स्वार्थ न शुभं कर्म, कामयेव्यवहारतः सर्वजीवोपकाराय, करोमिस्वाऽधिकारतः ॥५६६॥ सर्ववेदादिशास्त्राणां, सारोऽस्तितं वदाम्यहम् । आत्मशुद्धिः प्रकर्तव्या, रागद्वेषविनाशतः ॥५६७॥ सर्वविश्वस्थधर्माणां, शास्त्राणां मर्म वेम्यहम् । पुण्यं स्वर्गाय मुत्त्यर्थ, पापस्यानरकायच ॥५६८॥ सर्वदर्शनसारोऽस्ति, मनोवाकायशुद्धितः आत्मशुद्धिः प्रकर्तव्या, वदामीतिसुनिश्चयात् ॥५६९॥ सर्वदर्शनशास्त्रेषु, यत्सत्यतत्समाचर; स्याद्वाददृष्टितःसर्व-, सत्यांशान यान्ति योगिनः ॥५७०॥
For Private And Personal Use Only