________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९
सम्यग्दर्शनलब्धारो, सर्वदर्शनधर्मतः सत्यंगृह्णन्ति सापेक्ष-, दृष्ट्या जैनाः शिवार्थिनः॥५७१॥ सम्यग्दृष्टिं हृदि प्राप्य, पश्चाद् भूत्वोपयोगिनः स्वाऽन्यलिङ्गेषुसिद्धाये, सेत्स्यन्तिते च सर्वथा ॥५७२॥ सम्यग्दर्शनसम्प्राप्त्या, प्रादुर्भवति चेतने; शुद्धोपयोगसामर्थ्य, सर्वकर्मविनाशकम् ॥५७३॥ अनेकान्तमताऽम्भोधिः सम्यग्दृष्टिजनोऽस्तियः सर्वधर्मस्यमर्माणि, जानाति साध्यलक्ष्यवान् ॥५७४॥ स्याद्वादनयसापेक्षा, ज्जिनाङ्गे सर्वदर्शनम् माति मया परिज्ञातं, स्यावादनयबोधतः ॥५७५॥ सर्वदर्शनसत्यांश-, दर्शकं जैनदर्शनम् । सर्वकदाग्रहान्मुक्तं, शुद्धोपयोगदर्शकम् ॥५७६॥ रुणडिसत्यबोधेन, सर्वविश्वकदाग्रहान् ; सर्वदर्शनसद्रूपं, जयताज्जैनदर्शनम् ॥५७७॥ जैनदर्शनमाऽऽत्माऽस्ति, स्वाऽऽत्माऽहंजैनदर्शनी; जिनश्चजैनरूपोऽहं, साध्यसाधनभावतः ॥५७८॥ मुक्त्यर्थयोजिनैर्दिष्टो, जैनधर्मःसउच्यते, आदर्शध्येयरूपोऽस्ति, पूर्णाऽऽत्मशुद्धिकारकः ॥५७९॥ आत्मनःपूर्णशुड्यर्थ, जैनधर्मोऽस्ति साधनम् । द्रव्यभावारिजेतारो, जैना जिनाऽनुयायिनः ॥५८०॥ जैनास्तु साधकाऽऽत्मानो, मोहनाशनतत्पराः रागद्वेषविजेतारो, केवलज्ञानिनो जिनाः ।।५८१॥ जैनधर्मो जिनो जैन, आत्मैवचाऽऽत्मपर्यवाः आत्मनःशुद्धपर्याय-, सिद्धरूप मुपास्महे ॥५८२॥
For Private And Personal Use Only