________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
5
૪૭
अनादिकालसंयोग, आत्मनः कर्मणो द्वयेाः आत्मा निजाssत्मभावेन, कर्महन्ता स्वयंभवेत् ॥५४७॥ सर्वशक्तिमयः स्वाऽऽत्मा, दैन्यं किञ्चिन्न धारय सर्वशक्तिप्रकाशार्थं, यतस्व पुरुषार्थतः ॥५४८ ॥ आत्मोल्लाससमुत्साहा, ज्जीव !! शुद्धाऽऽत्मनिस्वयम् । आत्मानन्दरसास्वादं कुरुष्व स्वाऽऽत्मभावतः ॥ ५४९ ॥ आत्मानन्दाऽमृतंपीत्वा भवमग्नो निजाऽऽत्मनि; सर्वसाधनतः साध्य, माऽऽत्मानन्दस्यजीवनम् ॥५५० ॥ स्वलक्ष्ये निश्चितं ध्येयं, पूर्णानन्दरसोदधेः कर्तव्यं सर्वथा पानं, त्यक्त्वा मोहविषं द्रुतम् ॥५५१ ॥ मनः स्वर्गों मनःश्वभ्रे, संसारो मन एवच मोहरूपं मनो जित्वा, मुक्तो भवति चेतनः ॥५५२ ॥ मनोनाशाद्भवेन्मृत्यु महादि कर्मणां द्रुतम् । मोहक्षयेन मोक्षोsस्ति, मोक्षेऽनन्तं सुखं सदा ॥ ५५३ ॥ पर्यायाणां गुणानाञ्च व्यक्तभावोऽस्तिसिद्धता, सन्तस्तेव्यक्तिरूपेण भवन्ति गुणपर्ययाः ॥५५४ ॥ व्यक्तो भवन्तिनाऽसन्तः सन्तोव्यक्ताभवन्तिते; नाऽसतोजायते सत्त्वं, सतोऽसत्त्वं न जायते ॥ ५५५ ॥ गुणा अनन्तपर्याया, आत्मनिसन्ति सत्तया: . सद्भ्यः सामर्थ्यपर्याया, अनन्ता व्यक्तभावतः ॥ ५६६ ॥ आत्मा सामर्थ्य पर्याय-, व्यक्तीभावात् भवेत्प्रभुः सिद्धोबुद्धोजिनेशाऽऽत्मा, स्वयम्भुर्भगवान् विभुः ॥५५७ ॥ अव्यक्तः सत्तया स्वाऽऽत्मा, व्यक्तोऽव्यक्तगुणादिभिः अव्यक्ताः सन्ति सद्व्यक्ताः पर्यायाश्चगुणा निजे ॥ ५५८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only