________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मनः सद्गुणाः सर्वे, स्वाऽऽत्मरूपा अनादितः सत्तातो विद्यमानास्ते, भवन्ति व्यक्तरूपिणः ॥५३५॥ आत्मशुद्धस्वभावेन, मोक्षोऽस्तीति विनिश्चितम् । रागद्वेषविभावेन, संसारोऽस्तोति निश्चितम् ॥५३६॥ जीवनस्वाऽऽत्मभावेन, मृत्युमोहेन निश्चितम् जीवन मरणं ज्ञात्वा, प्रमादं मा कुरुष्वभोः ॥५३७॥ मुक्तिराऽऽत्मनि विज्ञेया, माऽन्यत्रत्वं परिभ्रम; आत्मन्येवनिर्जराज्य, बाह्यराज्येषु मामुहः ॥५३८॥ स्वाश्रयेणैव जीव !! त्वं, मा जीव !! त्वं पराश्रयात्: पारतन्य महामृत्युः स्वातन्त्र्यमाऽऽत्मजीवनम् ॥५३९॥ स्वाऽऽत्मन्येवसुखं सत्यं, दुखं हि जडमोहतः आत्मानमन्तराकोऽपि, कदाचिन्नाऽस्तिशर्मवान् ॥५४०॥ आत्मनोरिपुरात्मैव, रागद्वेषादिसंयुतः आत्मनो मित्र माऽऽत्मास्ति, साम्येन कर्मनाशकृत् ॥५४१॥ आत्मनो बन्धुरात्माऽस्ति, मैत्र्यादिभावसंयुतः । आत्मन ईश्वरः स्वाऽऽत्मा, ज्ञानचारित्रसंयुतः ॥५४२॥ आत्मनः सूर्य आत्माऽस्ति, शुद्धब्रह्मप्रकाशवान् । आत्मनश्चन्द्र आत्माऽस्ति, शमसंवेगसंयुतः ॥५४३॥ कर्मकर्ता निजाऽऽत्मास्ति, कर्मभोक्ता तथाऽऽत्मराट्, कर्महर्तानिजाऽऽत्माऽस्ति, बडोमुक्तोऽस्त्यपेक्षया ॥५४४॥ अनन्तशक्तिमान् ह्याऽऽत्मा, निजाऽऽत्मशक्तियोगतः अनन्तशक्तिमत्कर्म, पौद्गलिकक्रियाबलात् ॥५४५।। कुत्राऽपिबलवकर्म, कुत्राप्याऽऽत्मा बली भवेत्; ज्ञानसाम्यबलोपेत, आत्मा कर्मारिनाशकृत् ॥५४६॥
For Private And Personal Use Only