________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
कामभोगादितोजातं, सुखं स्वप्नोपमं मतम् । तत्रनो मुह्यति ज्ञानी, शुद्धोपयोगशक्तितः ॥ २७४ ॥ काम्यस्पर्शेषु मामुह्य, ख्यादिरूपेषुमुह्य मा; जडत्वं स्पर्शरूपेषु, तेभ्यः शर्म न जायते ॥ २७५ ॥ सुखत्वं न जडेष्वेव, तेभ्यः शर्म कथं भवेत् ? आत्मोपयागतोज्ञात्वा, ज्ञानी तत्र न मुह्यति ॥ २७६ ॥ आत्मायत्तं मनः स्याच्चे-दिन्द्रियाणि तथाऽऽत्मनः वश्यानि तर्हि साधूना, मत्रैवमुक्तिसिद्धयः ॥ २७७ ॥ रागद्वेषविनिर्मुक्तं, सर्वसंकल्पवर्जितम् । आत्मायत्तं मनः स्याच्चेन् , मुक्तिरत्रानुभूयते ॥२७८॥ अहंत्वंतद्विनिर्मुक्तं, लिंगाध्यासविवर्जितम् ; मनः शुद्धोपयोगेन, भवेत् तत्र न संशयः ॥२७९ ॥ लोकसंज्ञादिभिर्मुक्ता, अवधूताः सुखैषिणः उन्मत्ता इव संसारे, वर्तन्ते ब्रह्मदर्शिनः . ॥ २८० ॥ आत्मशमनिमग्नानां, वेषाचारमतादिषु; बन्धननैवचोन्मत्त, इव सर्वत्र वर्तनम्
॥२८१ ॥ केषांचिन भवेदेवं, नानाशुद्धोपयोगिनाम् । जानाति ज्ञानिनं ज्ञानी, गुप्तं व्यक्तस्वबोधतः ॥२८२॥ लोकाचारविचारेण, विरुद्धा इव वर्तिनः ब्रह्ममग्ना महासन्तो, ज्ञायन्ते ब्रह्मदर्शिभिः ॥२८३।। बाह्यवेषादिभिः सन्तो, ज्ञायन्ते न कदाचन: उन्मत्ता आत्ममग्नास्ते, ज्ञायन्ते च स्वबोधतः ॥ २८४ ॥ आत्मोन्मत्तावधूतानां, हृदि शुद्धेश्वरो महान् ; आवर्भूतोऽस्ति विज्ञाय, तेषां भक्तौ रतोभव ॥ २८५ ॥
For Private And Personal Use Only