________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૫
॥ २८७ ॥
॥ २८७ ॥
द्वेषरागादिभिर्मुक्ताः शुद्धात्मानो महर्षयः वीतरागा जिनाः शुद्धा, ईश्वरा देहसंस्थिताः ॥ २८६ ॥ सत्त्वप्रकृतिसंयुक्ता, ईश्वरा ब्रह्मरूपिणः एतैः प्रबोधितो धर्मो, जैनधर्मोऽस्ति शाश्वतः सर्वज्ञा वीतरागा ये, तैर्हि विश्वस्थदेहिनाम् ; मुक्त्यर्थं स्थापितो धर्मो, जैनधर्मः स उच्यते ॥ २८८ ॥ त्यागिनां च गृहस्थानां, स्वाधिकाराद् द्विधाशुभः गृहस्थैस्त्यागिभिः सेव्यो, जैनधर्मः स्वमुक्तये ।। २८९ ।। अन्यधर्मेषु सत्यं यत्, सापेक्षनयबोधतः तत् सापेक्षतया ग्राह्यं, गीतार्थगुरुनिश्रया शुद्धोपयोगिनां सर्व, जगत् सम्यग्दृशां सदा, आत्मानन्दस्य हेत्वर्थ, सर्व सम्यकतया स्थितम् ॥ २८८ ॥ निश्चयाद् व्यवहारायो, जैनधर्मो द्विधा सदा व्यवहारो न मोक्तव्यो, निश्चयदृष्टिधारिभिः व्यवहारनयोच्छेदा, ज्जैनधर्मक्षयो भवेत्; संघतीर्थक्षयश्चेति, सर्वार्हद्भिः प्रभाषितम् शुद्धोपयोग लाभार्थ, व्यवहारस्य हेतुता; आत्मनो निश्चयोधर्मः शुद्धोपयोग आत्मनि आत्मन्येवाssत्मनो धर्मः शुद्धोपयोग इष्यते; शुद्धोपयोगिनां सर्व, विश्वमानन्दहेतवे आत्मानन्दोपयोगार्थं, निमित्तं च जगद्भवेद्: ज्ञानेज्ञेयं जगत्सर्वं सुखाय स्वोपयोगिनाम् बाह्यमह्यां सुखनास्ति, तर्ह्यपि शर्महेतवे; ज्ञाने ज्ञेयतया भाति, ज्ञानात्सुखं निजात्मनि
For Private And Personal Use Only
॥ २८९ ॥
॥ २९० ॥
॥२९१॥
॥ २९२ ॥
॥२९३॥
॥२९४॥