________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नास्तिशर्मच पुत्रायै, लक्ष्मीदारादिभिर्न च: यशोविद्यादिभिर्नास्ति, किञ्चिन्न बाह्यवस्तुभिः ॥२६२॥ मैथुनेन सुखंनाऽस्ति, प्रत्युत दुःखकृद् भवेत् ; मनोवाकाययोगेन, ब्रह्माराधनतः सुखम् ॥२६३ ॥ भ्रमतां बाह्यसौख्याथै, सर्वत्र चक्रवर्तिनाम् : मिलिता सत्यशान्तिनों, सत्यशान्तिर्निजाऽऽत्मनि॥२६४॥ वैषयिकस्य शर्माशा-, सागरोऽस्ति भयङ्करः तत्पारंकोऽपि न प्राप्तः पारं यास्यसि नो ध्रुवम् ॥२६५॥ जडानन्दाप्तये यद्यत् , कल्प्यते तत्तु दुःखकृत् ; जायतेऽनुभवं प्राप्य, तत्रकि परिमुह्यसि ॥२६६ ॥ यशःसन्मानकीत्यर्थ, नामरूपप्रमोहतः कृतं यत्तन्न शान्त्यर्थ, स्यात्प्रत्युतच दुःखकृत् ॥२६७॥ बाह्यानन्दाय यद्यच्च , क्रियते तत्त दुःखकृत्; जायते मोहिनां नृणां, नच ब्रह्मसुखैषिणाम् ; ॥२६८॥ कोटिकोटिमहोपाय, नित्यानन्दो न बाह्यतः आत्मन्येव सुखं सत्यं, बाह्य त्वं मा परिभ्रम ॥२६९॥ विद्यया न सुखं सत्यं, नच शान्तिरविद्यया: शास्त्रेभ्यो न सुखं शान्ति, विवादाच न जायते ॥२७०॥ सत्त्वरजस्तमोजन्यं, सुखं तु नैव तात्त्विकम् । सत्त्वादिप्रकृतेभिन्न, मात्मसुखं प्रवेदय ॥२७१ ॥ शुभाऽशुभमनोवृत्ति-लयेनैव प्रकाश्यते; निर्विकल्पं सुखं सत्य, मात्मनःस्वनुभूयते ॥२७२ ।। अन्तर्बहिश्च सर्वत्र, सुखभाऽऽत्मोपयोगिनाम् । मर्वथा मर्वदा नित्य. मस्ति भोगाप्तिमन्तरा ॥२७॥
For Private And Personal Use Only