________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૨
शाताऽशातोदयाच्छर्म, दुःखं चाऽऽत्मोपयोगिनाम् । आत्मानन्दरसास्वाद, चैवं स्वानुभवोहृदि ॥ २५० ॥ शातोदये समुत्पन्ने, सुखे चाऽऽत्मोपयोगिनाम् ; बाह्यसुखे न रागःस्याद्, ब्रह्मानन्दस्य भोगतः ॥ २५९ ॥ पूर्णब्रह्मनिमग्नोऽस्मि, पूर्णब्रह्मस्वरूपतः पुद्गलैः पुद्गलास्तृसिं, यान्तिस्वाऽऽत्मानिजाऽऽत्मना२५२ आत्मनः सत्यतृप्तिस्तु, स्वाऽऽत्मानन्देन जायते: आत्मानन्दर सावाप्तेः पुद्गलेच्छा विनश्यति ॥ २५३ ॥ क्षयोपशमभावीय-, ज्ञानचारित्रयोगतः आत्मन्येव सुखाम्भोधिः स्वयंस्वेनाऽनुभूयते ॥ २५४ ॥ क्षणिकं हृदि विज्ञाय, सर्व वैषयिकं सुखम् ; आत्मानन्दस्य भोगार्थ, मात्मन्येव स्थिरोभव ॥ २५५ ॥ अनन्तगुणपर्याय, शक्तिरूपं सनातनम् ; देहस्थ तं विजानीया, देहाध्यासं भृशं त्यज ॥ २५६ ॥ मा मुा जड भोगेषु, किञ्चिच्चाऽपि ततः सुखम् ; न स्यात्परन्तु दुःखानां प्राप्तिः पश्चात्समुद्भवेत् ॥ २५७ भोगाद् रोगादिदुःखानां, पारम्पर्यं प्रजायते: भोगे रोगभयोत्पादो, देहनाशोऽल्पसौख्यता ॥ २५८ ॥ जायते च महादुःखं, विश्रान्तिरपि नोद्भवेत् भोगजन्यसुखं दुःख, मेवजानीहि निश्चयात् ॥ २५९ ॥ भुक्ता अनादितो भोगाः प्रत्युत दुःखदाः सदा । ज्ञात्वैकामभोगांस्त्वं त्यजाऽऽत्मसुख निश्चयात् ॥ २६० ॥ जन्ममृत्युजरादुःखं, व्याधिदुःखं पुन भ्रंशम् : आधिजं सर्व सम्बन्ध-जन्यं दुःखमुपाधिकम् ॥ २६९ ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only