________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
सतां सङ्गं तु मा मुश्च, व्यक्तशुद्धोपयोगिनाम् ; सतां सङ्गात् प्रभुळक्तो दीपाद्दीपो भवेद्यथा ॥१९०॥ एकंक्षणं भवेत् प्रीत्या, यदा चेत् साधुसङ्गतिः अनन्तभवपापानि, नश्यन्ति ब्रह्मबोधतः ॥१९॥ सतांसङ्गः सदाकार्यः सन्तःसेव्या विवेकतः सेवाकार्या सतांप्रीत्या, तेभ्य आत्मा प्रकाशते ॥१९२॥ साधवो बहुधा सन्ति, नानाचारविचारिणः तेषां सङ्गो विवेकेन, कर्तव्य आत्मशुद्धये ॥१९३॥ सुखंभोगेषु नो ।कश्चित् , स्वाऽऽत्माऽस्तिसुखसागरः स्वाऽऽत्मन्येवस्थिरीभूय, सुखास्वादं करिष्यसि।१९४॥ सर्वदर्शनशास्त्रेभ्यः सत्यं गृहाण बुद्धितः गृहाण सत्यं धर्मेभ्यो, निन्दा माकुरु धर्मिणाम् ॥१९५॥ आत्मोपयोगतोजीव !! माजीव !!! मोहवृत्तितः सुखाद्यर्थं जडेषु त्वं, ग्राह्यत्याज्यमतिं त्यज ॥१९६॥ जीवनं स्वाऽऽत्मभावेन, मृत्युर्हि मोहभावतः मोहमृत्यु परित्यज्य, नित्यं जीव निजाऽऽत्मनि॥१९७।। मोहभ्रान्त्या चिदाऽऽत्मानं, स्वाऽऽत्मानं नैव विस्मर !!! स्वयंस्वाऽऽत्मनि विज्ञाय, स्वस्यस्मर्ता स्वयंभव ॥१९८॥ शुद्धोपयोगतोजाग्रन् , भव त्वं हि प्रतिक्षणम् , ज्ञातेसर्वजडेकिंस्या, दात्मानं विद्धि बुद्धितः ॥१९९।। ग्राह्यत्याज्यमनोवृत्ति, विन्मोहात् प्रवर्तते; तावदाऽऽत्मनिचाञ्चल्यं, पूर्णस्थैर्य न जायते ॥२००॥ ग्राह्यत्याज्यप्रवृत्तिस्तु, यदाप्रारब्धकर्मतः स्यात्तदास्वाऽऽत्मनोमुक्ति,र्जीवन्मुक्तमहात्मनाम्.२०१
For Private And Personal Use Only