________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रारब्धादन्तरामोह, शाताऽशाताप्रवृत्तयः सुखंदुःखं च जायेत, योग्यकर्मव्यवस्थितिः ॥२०२॥. समीभूय प्रवर्तस्व, प्रारब्धमर्वकर्मसु; शुद्धोपयोगतः साक्षी, भूय कर्म समाचर ॥२०३॥ कोटिकोटिमहोपायै, भोगात् सुखं न लप्स्यसे; आत्मन्येवसुखंपूर्ण, ज्ञात्वा तत्रस्थिरो भव ॥२०४॥ क्षायोपशमिकप्रज्ञा-ध्यानचारित्रयोगतः अनुभूतं परब्रह्म-, ज्ञानानन्दं मयामयि ॥२०॥ निजाऽऽत्मैव परब्रह्म, विज्ञाय स्वाऽऽत्मसंस्थितः शुद्धोपयोगतःसत्यां, भावय ब्रह्मभावनाम् ॥२०६॥ स्थिरदीपकवद्ध्यान, मात्मनः स्याद्यदातदा; आत्माप्रकाशते साक्षात्-स्वस्मिनस्वानुभवः स्वतः थाह्यतः कर्मकुर्वन्स, नाऽऽत्मानं हृदि चिन्तय; स्वयंस्वस्मिन्परीणामी,भव शुद्धाऽऽत्मभावतः॥२०८॥ बाह्यदृश्येषुनैवाऽस्ति, किञ्चिदपिनिजाऽऽत्मनः अतोबाह्येषुनोकुर्या, मत्तवृत्तिंतु मोहतः ॥२०९॥ जडपदार्थविज्ञान, कृत्वास्वाऽऽत्मोपयोगिनीम्, प्रवृत्तिमाचर त्वं ता, मात्मप्रगतिहेतवे ॥२१० ॥ प्रतिबन्धो न सर्वत्र, सर्वकर्मसु धर्मिणाम् : प्रवृत्तिषुनिषेधेषु, निबन्धाः साधवः सदा ॥२११ ॥ शुद्धोपयोगतः सन्तो, मुक्ता धार्मिकबन्धनैः तथापिबन्धनाचारै, वर्तन्ते तेयथातथा ॥२१२ ॥ बताचारेषु नैयत्य, नोगुणानां निजाऽऽत्मनः बेषव्रतक्रियायैस्तु, भिन्ना आत्मगुणा:सदा ॥२१३॥
For Private And Personal Use Only