________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ स्वाऽन्यप्रकाशकं ज्ञानं, प्रत्यक्षवेद्यते हृदि ॥ तद्विज्ञानमयःस्वाऽऽत्मा, स्वेनाऽनुभूयते स्वयम्॥१७८॥ नयभङ्गप्रमाणैश्च, यदाऽऽत्मा ज्ञायते हाद । तदाप्रकाशतेज्ञानं, सम्यच्छूडानपूर्वकम् ॥१७९॥ सर्वधर्मादशास्त्राणां, नयैः सापेक्षवेदिनाम् सम्यग्दृष्टिमनुष्याणां, ज्ञानंसम्यक्तथा भवेद् ॥१८०॥ सम्यगदृष्टिजुषां सर्व,-मिथ्याशास्त्रमपिस्वतः सम्यज्ज्ञानतयाभाति, सम्यग्हाष्टप्रतापतः ॥१८॥ मिथ्यादृष्टिजुषांसम्य-च्छास्त्रंताीपमोहतः मिथ्यारूपतयाभाति, मथ्याहाष्टप्रतापतः ॥१८२॥ देहादिवासनां मिथ्या, शास्त्रादिमोहवासनाम् त्यजन्ति ज्ञानिनश्चैवं, दर्शनमोहवासनाम् ॥१८३॥ सात्त्विकज्ञानचारित्र-गुणेभ्य आत्मसद्गुणाः भिन्ना आत्मविशुद्ध्यर्थ-हेतुभृताश्वधर्मिणाम्॥१८४॥ ज्ञानदर्शनचारित्र-वीर्याद्या आत्मसद्गुणाः भक्तिदानदयाघाये, ज्ञातव्याः सात्त्विका गुणाः॥१८५॥ सात्त्विकाचारधर्मेषु, सात्त्विकसद्गुणेष्वपि आत्मबुद्धिन संध्याज् , ज्ञानी शुद्धोपयोगवान्॥१८६॥ सत्त्वरजस्तमोवृत्त्या, भिन्न आत्माऽस्तिवस्तुतः ज्ञात्वैवमाऽऽत्मनः शुद्धिं, कुर्वन्ति झुपयोगिनः॥१८७॥ गीतार्थगुरुनिश्रांये, कृत्वाब्रह्मोपयोगिनः स्वाधिकारेण वर्तन्ते, तेस्युर्मुक्ताः स्वभावतः ॥१८८॥ स्वाऽऽत्मायत्तं मनः कृत्वा, शुद्धाऽऽत्मानं स्मर स्वयम् । आत्मन्येव स्थिरीभूय, शुद्धब्रह्म भविष्यसि ॥१८९॥
For Private And Personal Use Only