________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धाऽऽत्मैवमहादेवः कर्मसृष्टिविनाशनात् आत्मैवाऽस्तिमहारुद्रो, मोहशत्रुविनाशनात, ॥१६६॥ रागद्वेषहरादात्मा, हरः क्षायिकलब्धिमान् : दुष्टमोहोहृतोयेन, सआत्माहरिरुच्यते ॥१६७॥ आत्मैवशंकरः प्रोक्तः शुद्धशक्तिस्तुपार्वती; आत्माऽऽनन्दोवृषोज्ञेयः स्वयंभुर्भगवान् हरः ॥१६८॥ आत्मैवश्रीहरिबर्बोद्ध्यो, राधातुशुद्धचेतना ॥ रामआत्मैवसीताऽस्ति, शुद्धवृत्तिश्चिदात्मिका.॥१६९॥ अल्लाखुदाऽस्तिसद्ब्रह्म, निराकारंनिरञ्जनम् करीमहीचिदानन्द-वीर्याऽऽत्मासर्वशाक्तमान् १७० आत्मनः शक्तयः सर्वा, एवव्यः सदान्तराः बाह्यतः प्रकृतेर्दैव्यो, सन्त्योदयिकशक्तितः ॥१७॥ रजोगुणसमष्ट्याऽस्ति, बाह्यब्रह्मांऽगिनांगणः बाह्योहरोऽस्तिजीवानां, संघस्तमासमष्टितः ॥१७२॥ सर्वसात्त्विकजीवानां, संघो विष्णुर्हिबाह्यतः सर्वविश्वस्थजीवानां, त्रिदेवत्वंहिकल्पनात् ॥१७॥ बौद्धा बुद्धमिति प्राहुः शवं शैवाश्च वैष्णवाः हरिं प्राहु स्तथाराम, मात्मानं भन्नलक्षणैः ॥१७४॥ आत्मना ज्ञायते देवः ह्यसङ्ख्यनामपर्यवैः अन्याकोऽपिनजानाति, स्वाऽऽत्मानमन्तरा प्रभुम्१७५ सत्याऽऽत्मनिजगत्सर्व, भासते नान्यथा कदा यज्ज्ञानंतन्निजाऽऽत्मैव, ज्ञानाऽऽत्माभाषितः श्रुते दर्शनज्ञानचारित्र-मनन्तशक्तिसंयुतम् देहस्थं नित्यमाऽऽत्मानं,मूढा जानन्ति नो स्वयम्॥१७७॥
For Private And Personal Use Only