________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तद्भोगावलिकर्माऽस्ति, सर्वोपायर्न नश्यात बद्धं निकाचितं कर्म, ददाति स्वविपाकताम् ॥१५४॥ प्राप्तकर्मविपाकोयः शुभोवाप्यशुभोभवेत् वेद्यन्तं सुखं दुःखं, ज्ञानी तत्र न मुह्यति ॥१५॥ ज्ञानानन्देनजीवन्सन् , बद्धकर्मोदये सति । पुनः कर्म न बध्नाति, शुद्धाऽऽत्मसाम्यदर्शकः॥१५६॥ जन्मनि मरणे ज्ञानी, समभावेन वर्तयन् । ज्ञानाऽऽनन्दसमुल्लासा, दान्तरंजीवनवहेत् ॥१५७॥ घातिकमविनाशेन, चाऽघातिकर्मवेदयन्, सयोगी केवलज्ञानी, जीवन्मुक्तो भवेजिनः ॥१५८॥ अघातिकर्मसंभुज्य, कृत्स्नकर्मक्षयात् प्रभुः सिद्धोबुद्धो भवेन्मुक्तः शुद्धोऽरूपी निरञ्जनः ॥१५९॥ पूर्णोऽसङ्ख्यप्रदेशाऽऽत्मा, पूर्णज्ञानप्रकाशवान् , पूर्णानन्दमयोनित्यः सोऽहंध्येयो मुहुर्मुहुः ॥१६०॥ अनंतवीर्य आत्माऽह, मनन्तज्योतिषः प्रभुः देहस्थोऽपिनदेहोऽहं, बहिरन्तःप्रकाशकः ॥१६१॥ सर्वधर्मास्तुसद्पाः आत्माऽऽधारप्रजीवकाः ध्रौव्योत्पादव्ययीरूप, आत्माऽहं द्रव्यपर्यवैः ॥१६२॥ पर्यायः सदसद्पैः सर्वविश्वमयोविभुः आत्माऽस्मिसत्तयाचैको,व्यष्टिसमष्टिमानस्वयम्१६३॥ संसारिविश्वजीवानां, संघा वैराट्प्रभुमहान् ॥ षड्द्रव्यात्मकलोकस्य, जगत्त्वंचसमष्टिता ॥१६॥ आत्मैवास्तिमहाब्रह्मा, केवलज्ञानतः स्वयम् । आत्मैवास्तिमहाविष्णुः शुद्धचारित्रयोगतः ॥१६॥
For Private And Personal Use Only