________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५3 विश्वस्थसर्वधर्मा ये, जैनधर्मे प्रमान्ति ते जैनधर्माङ्गभूतास्युः सर्वधर्मा अपेक्षया ॥२८९ ॥ शुद्धाऽऽत्मधर्म एवास्ति, जिनधर्मः सुखोदधिः शुद्धाऽऽत्मधर्मसाध्याय, जैनधर्मोऽस्तिसाधनम् ॥२९०।। स्वाऽऽत्मैव जैनधर्मोऽस्ति, स्वधर्मो मोक्षदायका जडद्रव्यस्थितोधर्मः, आत्मभिन्नास्वभावतः ॥२९॥ मोहादिप्रकृतेर्धर्मो, वैभाविकोऽस्ति बोधत आत्मशुद्धिकरान्सर्वे, धर्माः सत्या अपेक्षया ॥२९२।। सर्वदर्शनधर्माणां, सत्यत्वं नयष्टितः जैनदर्शनसद्धर्म, जानन्त्येवं विचक्षणाः ॥२९३॥ मुत्त्यर्थ मोहनाशार्थ, चाऽऽत्मनःशुद्धिहेतवे भूता ये च भविष्यन्ति, जैनधर्मागरूपिणः ॥२९४॥ स्वधर्मा जैनधर्मास्ते, सापेक्षयैव बोधत साधिते जैनधते, सर्व धर्माः प्रसाधिताः॥२९॥ यथाऽन्धौ सरितो यान्ति, जैनधर्म प्रति स्वयम् सर्वधर्मास्तथा यान्ति, सर्वधर्ममयः स च ॥२९६॥ परस्परप्रभिमानां, धर्माणां धर्मिणां तथा द्वेषश्च खण्डनं नैव, कर्तव्यं सर्वधर्मिभिः ॥२९॥ सर्वधर्मस्य सत्यांशा-ग्राह्या सापेक्षदृष्टितः सर्वधर्मस्वरूपोऽस्ति, जैनधर्मः सनातनः ॥२९८॥ अभ्यागतस्य सन्मानं, दुःखार्तानां च पालनम्। बालस्त्रीसाधुसंघस्य, रक्षणं स्वीयशक्तितः ॥२९९॥ चतुर्विधस्य संघस्य, तथा धर्माधिकारिणाम् । ऋषीणां हेलना नैव, कर्तव्या धर्मसाधकैः ॥३०॥
For Private And Personal Use Only