________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૫ર अन्यायक्रौर्यनाशेन, विश्वस्य शान्तिरक्षणम् । सर्वत्र सर्व जैनानां, नधर्मस्य लक्षणम् ॥२७७॥ नारीभिश्च नरैः प्रीत्या, कर्तव्यं वीर्यरक्षणम् । वीर्यरक्षण मप्यस्ति, जैनधर्मः सुखावहः ॥२७८॥ ब्रह्मचर्याश्रमे बालाः संपाद्या ऊर्ध्वरेतसः। प्राणायामादिभिर्भव्याः कर्तव्याः कर्मयोगिनः ॥२७९॥ सर्वदेशेषु रोगाणां, नाशार्थमौषधालयः। स्थाप्यो वैद्यप्रबन्धेन, तथा ज्ञानालयः शुभः ॥२८०॥ पशूनां पक्षिणां रोग-नाशार्थ मौषधालयः। कर्तव्यः सत्प्रवन्धैश्च, सर्वत्र विश्वयोगिभिः ॥२८१॥ दुष्टानां संगतिस्त्याज्या, चौरा दण्ड्याश्च हिंसकाः। राज्यनीतिप्रबन्धेन, वर्तितव्यं जगज्जनैः ॥२८२॥ अहिंसा सर्वखण्डेषु, प्रतिष्ठाप्याऽऽत्मभोगतः। आत्मसंघादिरक्षाया, महिसैव स्वभावतः ॥२८३॥ आत्मवत्सर्वलोकेषु, वर्तन जैनधर्मिभिः। कर्तव्यं जैनधर्मोऽस्ति, सत्यं मया प्रकाशितम् ॥२८४॥ षडावश्यककर्माणि, कर्तव्यानि सुभावतः। वात्सल्यं सर्वसंघस्य, कर्तव्य माऽऽत्मभोगतः ॥२८५॥ अन्यधर्मिवितर्कैस्तु, चलितव्यं नचाऽऽहतः । स्थातव्यं न सदा जैन-गीतार्थसद्गुरुं विना ॥२८६॥ सतां सेवा सदा कार्या, शुद्धाऽऽत्मध्यानयोगिनाम् । तिरस्कारो न कर्तव्या, सतां मोहस्य चेष्टितैः ॥२८७॥ माता पिता कलाचार्यः, सद्गुरुश्च सुभक्तितः। सेव्यः शक्त्यनुसारेण, भोजनादिप्रवन्धतः ॥२८॥
For Private And Personal Use Only