________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनात्मा सद्गतिं याति यादृशस्तादृशोऽपि सः । जैन संस्कारयुक्तानां, जायते सर्वथोन्नतिः ॥ २६५॥ जिनेन्द्रो हृदि जैनानां, परीणामेन विद्यते । ततस्तेषां पवित्रत्वं विश्वपावित्र्यकारकम् ॥ २६६ ॥ जैनाssस्मैव परब्रह्म, मनोदेहनियामकः । अन्तर्यामी वपुःसृष्टौ तस्मै नित्यं नमोनमः ॥ २६७ ॥ तीर्थंकरप्रभोः पश्चात्, जैनधर्मप्रवर्तकाः । धर्माचार्या द्विधा ज्ञेया गृहित्यागिद्विभेदतः ॥ २६८ ॥ जैनधर्मस्य साम्राज्ये, विद्यमाने तु भूतले । सत्या विश्वोन्नति भूया, च्छान्तिश्च सर्वभूतले ॥ २६९ ॥ areछान्तिर्न केनाऽपि वर्त्ततेऽतो जनैः सदा । जैनधर्मसदाचारः, पालनीयः प्रयत्नतः ॥ २७० ॥ अल्पदोषं महाधर्म, ज्ञात्वा जैनैर्विवेकतः । जैनधर्मान्नितेः कार्य, कर्तव्य माऽऽत्मभोगतः ॥ २७९ ॥ जैनधर्मस्य सेवायां महिसैव स्वकर्मतः । अहिंसाप्यन्यथा हिंसा, जैनानां स्वत्वनाशिनी ॥ २७२ ॥ पुरुषाणां च नारीणां तुल्यत्वं सर्वकर्मसु । सर्वजातिमनुष्याणा - मुच्चत्वं न च नीचता ॥ २७३ ॥ सर्वदेशीयलोकानां राष्ट्रादिसर्वकर्मणाम् ।
"
व्यवहारे समानत्वं, स्वातंत्र्यं च समं भुवि ॥ २७४ ॥ स्वातंत्र्यमेव धर्मेऽस्ति, सर्वदेशमनोषिणाम् । जैनधर्मो मया प्रोक्तो व्यक्तिस्वातंत्र्यरक्षकः || २७५ ॥ सर्वखण्डस्थलोकानां, रक्षणं सर्वशक्तितः । Grant मया प्रोकस्तथा पश्वादिरक्षणम् ॥ २७६ ॥
For Private And Personal Use Only