________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૫૦
g
जैनाना मस्तिता येन, भवेत्तद्व्यवहारतः । धर्मकर्तव्यरूपो यो- जैनधर्मः स उच्यते ॥ २५३॥ चतुर्विधस्य संघस्य वृडिरक्षाप्रर्वतकाः । जैनास्तेषां सदाचारो - जैनधर्मः स उच्यते ॥ २५४॥ जीवानां माssस्मवद् यस्मात् दर्शनं च प्रवर्तनम् । परस्परं भवेद्येन, जैनधर्मः स उच्यते ॥ २५५॥ दर्शनज्ञानचारित्र - गुणानां व्यक्तताऽऽत्मनि । जिनधर्मः स विज्ञेय-उपादानतया जनैः ॥ २५६ ॥ दर्शनज्ञानचारित्र - गुणानां व्यक्तहेतुकः । व्यावहारिकansस्ति, ज्ञेयो निमित्तयोगतः ॥ २५७॥ स्वार्थत्यागेन, जीवाना - मुपग्रहस्य कर्मसु । प्रवृत्तिस्तद्विचारश्च जैनधर्मो मयोच्यते ॥ २५८ ॥ स्वातंत्र्यं सर्वलोकानां, धर्मराज्यस्य पालनम् । आत्मभोगश्च विश्वार्थ, जैनधर्मः स गीयते ॥ २५९ ॥ सर्वदेशेषु जैनाना-मस्तित्वं च प्रवर्धनम् । भवेद्येनाSSत्मभोगेन, जैनधर्मः स गीयते ॥ २६० ॥ स्वाध्यायश्च तपःपूजा, साधर्म्यभक्तिहेतवः । सम्यक्त्वं सत्यचारित्रं, जैनधर्मः स गीयते ॥ २६१ ॥ जैनधर्मस्य रक्षाया मुत्सर्गेणापवादतः । चतुर्विधेन संवेन, वर्तितव्यं सदा मुदा ॥ २६२॥ जैनधर्मस्य रक्षायां, धर्मोभवति देहिनाम् । महान्हि तीर्थकृन्नाम-बन्धो भवति देहिनाम् ॥ २६३ ॥ जैनानां संकटे प्राप्ते, ये भवन्ति सहायकाः । ते पराSSत्मपदं यान्ति, पुण्यानुबन्धकारकाः ॥ २६४ ॥
For Private And Personal Use Only