________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૫૪
अहंकारो न कतव्यो वक्तव्यं न च दुर्वचः । मंत्रभेदो न कर्तव्यः, प्राणान्तेऽपि सदा जनैः ॥ ३०२ ॥ मित्रद्रोहो न कर्तव्यः, सत्यं वाच्यं च सज्जनैः । देशद्रोहो न कर्तव्य - आत्मनो भूतिमिच्छता । ॥ ३०२ ॥ आत्मवज्जननी भूमि-र्मातृभाषा स्वतंत्रता । पूज्या रक्ष्या च सत्प्रेम्णा, मानवैराऽऽत्मभोगतः ॥ ३०३ ॥ गुणाः सर्वत्र संग्राह्या दोषा वाच्या न देहिनाम् । सद्विद्या सर्वतो ग्राह्या, कर्तव्या गुणसाधना ॥ ३०४ ॥ यथोचितं सुपात्रेभ्यो, दानं देयं स्वशक्तितः । वस्त्रान्नज्ञानदानेन, स्वर्गो मुक्तिश्च जायते ॥ ३०५ ॥ ज्ञानवृद्धि जनैः कार्या, ज्ञानविद्यालयादिभिः । साहाय्यं ज्ञानिनां कार्य, मन्नवस्त्रादिभिर्जनैः ॥ ३०६ ॥ त्याज्यानि पापकर्माणि, पुण्यं काय जनैः सदा । आपदुद्धर्मो जनैः सेव्य आपत्काले विशेषतः ॥३०७ || परोपकारकर्तॄणां प्रत्युपग्रहकर्मसु ।
स्थातव्य माSSत्मभोगेन, जनैर्धर्मपरायणैः ॥ ३०८ ॥ महावीर जिनेन्द्रस्य, जैना धर्मस्य साधकाः । भविष्यन्ति कलौ धर्म-दीपका ज्ञानियोगिनः ||३०९ | जैनसंघप्रगत्यर्थ, सर्वस्वार्पणकारकाः । भविष्यन्ति कलो जैना-ज्ञानधर्मेण राजिताः ||३१० || एकदा सर्वखण्डेषु, जैनधर्मप्रचारणा । भविष्यति कलौ नूनं, विश्वैक्यशांतिकारिका ॥ ३११॥ महावीरस्य सद्भक्त्या, लोकानां सद्गतिः कलौ । अरिष्टनेमिनाथेन, सर्वज्ञेन प्रकाशिता ॥ ३१२॥
For Private And Personal Use Only