________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७ जैनानां जैनधर्मस्थ, शत्रूणां शिक्षणाय ये। योग्यकर्म न कुर्वन्ति, ते स्यु मोहपरायणाः ॥२१५॥ जैनधर्मस्य शत्रूणां, दुर्गति दःखराशयः । जैनधर्मस्य रक्षातो, दुष्टानामपि सद्गतिः ॥२१६॥ प्रत्यहं श्रीजिनेन्द्रस्य, कर्तव्यं दर्शनं जनैः । सद्गुरो देर्शनं कार्य, वन्दनं च विवेकतः ॥२१७॥ चतुर्विधमहासंघ,-तीर्थस्य पूर्णरागतः । दर्शनं वन्दनं कार्य, वैयावृत्यं च सर्वदा ॥२१॥ निन्दा कार्या कदाचिन्न, जैनैर्देवस्य सद्गुरोः हेलना न च कर्तव्या, प्राणान्तेऽपि च धर्मिणाम् ॥२१॥ सद्गुरुदेवधर्माणां, रागेण सद्गतिः कलौ। भविष्यति मनुष्याणां तत्र किश्चिन्न संशयः ॥२२०॥ कलौ सरागधर्मस्य, प्रवृत्तिर्मोक्षकारिका । भविष्यतिं च साधूनां, सरागधर्मवर्तनम् ॥२२१॥ जैनानां जैनधर्मस्य, रक्षायै च प्रवृद्धये । देहवित्तादिसर्वस्य, त्यागः कार्यों विवेकतः ॥२२२॥ जैनानां जैनधर्मस्य, नाशकाश्च भवन्ति ये । तेषां शिक्षा प्रकर्तव्या, जैनानां धर्म एव सः॥२२३॥ मयां जीवन्ति सज्जैनाः सर्वजातिबलान्विताः। निर्बला नैव जीवन्ति, भ्रष्टाः क्षात्रादिकमतः ॥२२॥ राज्यकार्यादिनेतारः, क्षात्रव्यापारकर्मठाः । कृषिकर्मादिभि ना, जीवन्ति सर्वशक्तितः ॥२२५॥ सज्जनः सर्वखण्डेषु, यानवाहनयोगतः। कर्तव्य भ्रमणं सम्यग, लोकोपदेशहेतवे ॥२२६॥
For Private And Personal Use Only