________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८ सतीभिः सर्वखण्डेषु, यानवाहनयोगतः। जैनधर्मप्रचारार्थ, कर्तव्यं भ्रमणं सदा ॥२२७॥ प्राडदेवेन सर्वत्र, जैनसंस्कारहेतवे । कर्तव्यं भ्रमणं धर्म,-प्रेम्णा धर्मप्रचारिणा ॥२२८॥ साधूनां सेवया मुक्तिः, सर्वसंसारिणां भवेत् । सर्वधर्माधिकारोऽस्ति, साधूनां धर्महेतवे ॥२२९॥ आर्यानार्यप्रदेशेषु, धर्मसत्तादिहेतवे । कर्तव्यं गमनं जैन, श्वतुर्वर्गप्रसाधकैः॥२३०॥ आर्यजनैः स्ववंशाथै,सम्पाद्या संततिः शुभा। धमिपरम्परावृद्धि- हेतवे सर्वयुक्तिभिः ॥२३१॥ तीर्थस्थानेषु संघस्य, संमेलः प्रतिवत्सरम् । कर्तव्यो धर्मवृड्यथै, तथा तीर्थस्य पूजने ॥२३२।। जैनमन्दिरतीर्थानां, पूजा कार्या सुभावतः । तीर्थस्यसाधुवर्गस्य, सेवा कार्याऽतिरागतः ॥२३३॥ चन्दनायैः शुभं चिन्ह, ललाटे विधिपूर्वकम् । सर्वजैनः प्रकर्तव्यं, जिनाज्ञाप्रेमधारकैः ॥२३४॥ धर्मसंघादिरक्षार्थ, जैनानां शस्त्रधारणम् । सदा धर्माय विज्ञेयं, धर्म्ययुद्धे विवेकतः ॥२३५॥ संघाचैः सर्वथा विद्या, बलमाप्यं च युक्तितः। कृषिक्षात्रादिकर्माणि, कर्तव्यानि विवेकतः ॥२३६॥ जैनानां मृत्युतः, पश्चान्मुक्तिःस्वर्गों न संशयः। स्वीकर्तव्यो जनैनूनं, जैनधर्मः सनातनः ॥२३७॥ ब्रह्मविष्णुमहेशाद्या, देवा देव्यश्च सर्वथा । श्रीजिनेन्द्रप्रभोभक्ता, स्तरङ्ग इव वारिधेः ॥२३८॥
For Private And Personal Use Only