________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૪૬
Acharya Shri Kailassagarsuri Gyanmandir
जैनत्वं सर्वजीवेषु, जिनत्वं सन्तया तथा । जिन एव परब्रम, ज्ञात्वा जैनो न मुह्यति ॥ २०३ अप्रमत्तो भवेज्जैन, परार्थं कर्मकारकः । व्यक्तीकुर्वन् जिनेन्द्रत्व- माऽऽत्मनो जायते प्रभुः || २०४ || पञ्चात्त्वं भजते नैव, जैनः कर्तव्यकर्मसु । प्रसह्य सर्वविघ्नानि, धीरो भवति नेमिवत् ॥ २०५ ॥ अरिष्टनेमिनाथोक्त - जैनधर्मस्य साधकाः । महद्भवन्तु सस्मीत्या, सज्जना आत्मरामिणः ॥ २०६ ॥ आत्मैव जैनधर्मोऽस्ति, आत्मैव जैन उच्यते । आत्मैव परमात्मास्ति, समष्टिव्यष्टिरूपवान् ॥२०७॥ शक्तित्वं यत्र तत्राऽस्ति, जैनत्वं जैनधर्मिणाम् । जिनत्वं व्यापकं सर्व- लोकेषु सर्वदेहिषु ॥ २०८ ॥ ब्रह्मविष्णुमहेशाथा, आत्मैव हृदि बोधत । अल आत्मैव सज्जैनो जिनेन्द्रा व्यक्तिशक्तितः ॥ २०९ ॥ जैनात्मैव परब्रह्म, मनोदेहनियामकः । अन्तर्यामी वपुःसृष्टी, तस्मै नित्यं नमोनमः ॥२१० ॥ सर्वत्र सर्वदेहेषु, जैनाः सन्ति स्वसत्तया ।
जिनाः सन्ति च देहेषु, तेभ्यो नित्यं नमोनमः ॥२११॥ जैनानां जैनधर्मस्य, रागिभ्योऽस्तु नमोनमः । महासंघस्य दासेभ्यः पूर्णप्रीत्या नमोऽस्तु मे ॥ २१२ ॥ बाह्यान्तः शक्तियोगेन, जैना जीवन्ति भूतले । शक्ति विना न जीवन्ति, दासा भवन्ति निर्बलाः ॥ २१६ ॥ चतुर्विधस्य संघस्य, प्रत्यनीका भवन्ति ये । तेषां शिक्षणकार्येषु, मुक्तिनेनेन्द्ररागिणाम् ॥ २१४ ॥
For Private And Personal Use Only