________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૪૫
सर्वजातीयजनानां, गुणकर्मानुसारतः । लग्नाद्या व्यवहारास्तु, संघटन्ते परस्परम् ॥१९१॥ सर्वजातीयजैनानां, गुणकर्मानुसारतः। स्पृश्यास्पृश्यादिभेदो न, भोजनादिषु तात्त्विकः ॥१९२।। शूद्रा अपि सदा स्पृश्या- जैना भवन्ति भूतले। जिनेन्द्रदेवसद्भक्त्यो, विश्वलोकस्य पावकाः ॥१९३॥ स्पृश्यास्पृश्यादिकंकर्म-जैनानां हि परस्परम् । कदापि कल्पते नैव, सत्यमुक्तं मया भुवि ॥१९४॥ जैनकन्या तु सज्जैन, विनाऽन्यस्मै न दीयते । कन्यादानं विधर्मिभ्यः, सर्वपापाधिकं मतम् ॥१९५॥ गुणकर्मानुसारेण, वर्णधर्मस्य सेवने । सर्ववर्णीयजैनानां, कृत्यमावश्यकं स्मृतम् ॥१९॥ स्वाधिकारेण यो योग्या, व्यवहारस धर्मिभिः। प्राणान्तेऽपि न मोक्तव्यो, यतो धर्मों भवेत्ततः ॥१९७।। देह वित्तादिभोगेन, सर्वजनैः परस्परम् । द्रष्टव्यः सर्वजनेषु. सत्तया परमेश्वरः ॥१९८॥ परस्परं नमस्कारः, कर्तव्यः सर्वदाऽऽहतः। भात्मरूपसमा ज्ञेया- जैना जैनः परस्परम् ॥१९९॥ जैनानां सर्वदा जैना-आत्मीयाः स्युः स्वभावतः। आहारे व्यवहारे च, पावित्र्यं हि परस्परम् ॥२०॥ जैनसंघो महातीर्थ, सर्वतीर्थशिरोमणिः। तदस्तित्वे सदा जैनः, कर्तव्यं स्वार्पणं कलौ ॥२०१ अनन्तज्ञानरूपोऽस्ति, जैन आत्मैव नो वपुः । विजितं दुर्मनो येन, स जिनो विश्वपावकः ॥२०२१॥
For Private And Personal Use Only