________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
>
૧૪૨
सर्वकामस्वरूपोऽस्ति, क्लींकारः सर्वकामदः । सर्वमंत्रस्वरूपोऽस्ति, जैनाऽऽत्मा जिनधर्मवान् ॥ १५५ ॥ निष्कामकर्म कर्तव्यं, येन मुक्तो भवेज्जनः । सकामकर्म लेपाय, जायते सर्वदेहिनाम् ॥ १५६ ॥ निष्कामत्वं सकामत्वं द्वयोः साम्यं च यहृदि । सर्वलोकस्य हन्ताऽपि समाऽऽत्मा स न हन्यते ॥ १५७॥ सर्वकर्मप्रकुर्वाणः समात्मा नैव लिप्यते । सर्वदोषेषु निर्दोषी, जीवन्मुक्तोऽभिधीयते ॥ १५८ ॥ सर्वपापेषु निष्पाप, निष्कामः सर्वकामिषु । समाssत्मा सर्वजीवेषु, क्रियावानपि निष्क्रियः ॥ १५९ ॥ समभावदशाप्रासौ, माध्यस्थ्यं जायते हृदि । साक्षित्वं जायते पश्चात्, दृश्यादृश्येषु वस्तुषु ॥ १६० ॥ आत्मानुभवसज्ज्ञानं, ततः सम्यक् प्रजायते । ततो नयप्रमाणानां शास्त्राणां न प्रयोजनम् ॥ १६२॥
Acharya Shri Kailassagarsuri Gyanmandir
नयप्रमाणनिक्षेप - भंगादीनां विकल्पतः । निर्विकल्पाssस्मरूपं तु, प्राप्यते नैव योगिभिः॥ १६२ ॥ नयादीनां विकल्पेन, श्रुतज्ञान विशारदैः । आत्मा न ज्ञायते साक्षा, निर्विकल्पसुखोदधिः ॥ १६३ ॥ यादृग्भावो भवेद्यस्य, तस्य तादृक् फलं भवेत् । शुभभावाद् भवेत्स्वर्गः श्वभ्रञ्चाशुभभावतः ॥ १६४ ॥ आत्मभावाद् भवेन्मुक्ति-रखण्डानन्दरूपिणी । ज्ञात्वा निष्काम भावेन, कर्तव्यं कर्म मानवैः ॥ १६५ ॥ नास्तिक बहिराssत्मानो-ज्ञेया मिथ्यात्विनो जडाः । जडातिरागिणो मूढा - मिध्यात्वगुणवर्तिनः ॥ १६६ ॥
For Private And Personal Use Only