________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
૧૪૨
आत्मभावं विना लोका-भ्रान्ता भ्रमन्ति भूतले । आत्मशर्म न जानन्ति, भूपेन्द्रा अपि वस्तुतः ॥ १४३॥ एक एव महानाऽऽत्मा, हृदि यस्य निरन्तरम् । भासते तस्य सत्प्रीत्या, मृत्युभीति नै जायते ॥ १४४॥ आत्मनः पूर्णविश्वासी, निर्भयो भवति स्फुटम् । विपत्तिमृत्युकालेsपि, पूर्णानन्दः स्वयं सदा ॥ १४५ ॥ देशभाषाविशेषेण यःस्यादनन्तनामवान् । अनाद्यनन्तपूर्णाssस्मा, पूर्णदृट्याऽनुभूयते ॥ १४६ ॥ साक्षादनुभवो यस्य, ब्रह्मणो जायते हृदि । तस्य किश्चिन लब्धव्यं, पश्चात् कुत्राऽपि विद्यते ॥ १४७॥ ज्ञानाssत्मा कृतकृत्योऽपि, प्रारब्धकर्मयोगतः । सर्वकर्माणि कुर्वन्सन्, परमार्थाथ जीवति ॥ १४८ ॥ सर्वत्राssत्मप्रभावोऽस्ति, लब्धिसिद्धिमयः सदा । मंत्रयंत्रादिशक्तीनां निधिराऽऽत्मा प्रकाशते ॥ १४९ ॥ स पञ्चपरमेष्ठ्यात्मा, चिदानन्दोदधिः प्रभुः । प्रत्यक्षो वेदितव्यः स कृत्वा तत्र मनोलयम् ॥ १५० ॥ ॐकारः परमाssस्मैव, परमेष्ठिस्वरूपवान् । दर्शनज्ञान चारित्र - शुद्धपर्यायवान् प्रभुः ॥ १५१ ॥ मंत्रयोगस्वरूपाssत्मा, जैनधर्मः सनातनः । यत्र तत्र स्वरूपोऽस्ति, जैनधर्मः सतां मतः ॥ १५२ ॥ ॐकार एव जैनाssत्मा, जिनेन्द्रश्व हृदि स्थितः । चतुर्विधमहासंघ - ॐकार एव सर्वदा ॥१५३॥ - सर्वशक्तिस्वरूपोऽस्ति, ह्रींकारो विश्वशासकः । सबै विद्यास्वरूपोऽस्ति, ऐकारो नाभिदेशगः ॥ १५४॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only