________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૪૦
आत्मज्ञानस्य लाभेन, जैना जयन्ति भूतले । अन्तरानेकलब्धीनां प्रातिस्तेन प्रजायते ॥ १३१ ॥ परब्रह्म जिनेन्द्रोऽस्ति, स्वाऽऽत्मैवं स हृदि स्थितः । इहामुत्र स सर्वत्र, यत्र तत्र महाप्रभुः ॥ १३२॥ एकाssत्मा हृदि संविष्ठो, मिथ्या देहादिकं खलु । ध्यातव्यः सच्चिदानन्द, स्तत्त्वमस्यादिलक्षितः ॥ १३३॥ आत्मनः प्रतिमा नास्ति, विश्वं स्वप्नोपमं हृदि । भासते यस्य सद्द्ब्रह्म, ज्ञानी जैनो भवेन् महान् ॥ १३४॥ ब्रह्मज्ञानी भवेदेव, निर्लेपः कर्मयोगिराट् । जैनः स विश्वशालायां, जायते परमार्थकृत् ॥ १३५ ॥ जीवानां विश्वशालायां, शिक्षणं सुखदुःखतः । भवत्येव समुत्क्रान्ति, राऽऽत्मनोद्रव्यभावतः ॥१३६॥ आत्मन आत्मभावेन, परिणामो भवेद् यदा । सदैक्यं जायते साक्षा, धृदि द्वैतं न भासते ॥१३७॥ अन्तराऽऽत्मनि सम्यक्त्वं, मौन माssस्मस्वरूपतः अष्टधाऽऽत्मा भवेत्तत्र, शुद्धाऽऽत्मा स्वोपयोगतः ॥ १३८ ॥ आत्मशुद्धोपयोगेन, परब्रह्म भवेज्जनः ।
अन्तर्मुहूर्तमात्रेण, रागद्वेषक्षयात्स्वतः ॥ १३९ ॥
परब्रह्मनिमग्नस्य, पूर्णानन्दामृतं हृदि ।
अत्रैव वेद्यते साक्षात्, तत्र साक्षी स्वयं भवेत् ॥ १४० ॥ आत्मनो गुरुराssस्मैव, शिष्य वाऽऽत्मैव साधकः । सिद्ध asseमैव सर्वस्व मात्मनि व्यक्तिशक्तितः॥१४१॥ आत्मशुडोपयोगाय, ज्ञानिनां संगतिः सदा ।
SS
तया प्रकर्तव्या, सर्वस्वार्पण भक्तितः ॥ १४२ ॥
For Private And Personal Use Only