________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૩૯ मनुष्यदेहसद्गेहे, प्रभुराऽऽत्माऽस्ति शक्तिमान् । ज्ञानमेव प्रधानोऽस्ति, विवेकः कार्यवाहकः ॥११९॥ क्षायिका लब्धयस्तन्त्र, प्रकाशन्ते स्वभावतः । शुद्धोपयोगसेनानी-रागादिशत्रुनाशकः ॥१२०॥ आत्मनः पूर्णसाम्राज्य, पूर्णानन्दप्रकाशकम् । वर्तते तत्र दुःखस्य, गन्धोऽपि नैव भासते ॥१२॥ यत्र मोहस्य साम्राज्य, वर्तते तत्र दुःखिता। पारतंत्र्यं मनुष्याणा-मात्मभोगेन नश्यति ॥१२२॥ आत्मस्वातंत्र्यसाम्राज्य-मात्मभोगेन जायते । समष्टिव्यष्टिसाम्राज्य-मात्मभोगात् प्रजायते ॥१२३॥ मृत्युभीत्यादियुक्ताऽऽत्मा, देहाऽऽत्माध्यासयोगतः। मुक्ति नाप्नोति मूढाऽऽत्मा, नामरूपादिमोहवान ॥१२४॥ आत्मानुभवबोधेन, निर्भयो जायते जनः । शुभाशुभसमो याऽऽत्मा, साक्षिरूपेण जीवति ॥१२५॥ सर्वकालेषु मुक्ताऽऽत्मा, जायते समभाववान् आत्मनि नैव कालोऽस्ति, न च कर्माणि निश्चयात् ॥१२६॥ आत्मानमाऽऽत्मभावेन, द्रष्टा सम्यक्त्वयोगिराट् । वैकुण्ठं मानसं कृत्वा, स्वतंत्रो जायते हदि ॥१२७॥ आत्मा येन न विज्ञातो-नैगमादिनयै महान् । सर्वयोनिषु संसारे, भ्राम्यति दुःखवेदकः ॥ १२८ ॥ येनाऽऽत्मा पूर्णविज्ञात-स्तेन ज्ञात मिदं जगत् । बाथान्तरे विजेतारो, भवन्ति ब्रह्मवेदिनः ॥१२९॥ मनोवाकायशक्तीनां, विकाशाय सुशिक्षणम् । आत्मज्ञानस्य संग्राह्य, परार्थस्वार्थसाधकम् ॥१३०॥
For Private And Personal Use Only