________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૮ आत्मज्ञानप्रभावेण, देहे वैदेहभावना। जायते मोहनाशेन, तत्तत्त्वज्ञानिनो विदुः ॥१०७॥ विदेहा अन्तराऽऽत्मानो- जैना एव निबोधत । महाविदेहतां यान्ति, जिनेन्द्राः परमेश्वराः ॥१०॥ महाविदेहसत्क्षेत्रं, देहेषु सर्वदेहिनाम् असंख्यातप्रदेशाऽऽत्म, ज्ञेयमध्यात्मदृष्टितः ॥१०९॥ देहेषु सन्ति वैदेहा-ज्ञानिनः सत्यनिर्भयाः। विदेहं शुद्धचित्तं तु, ज्ञानं वैदेहिकं महत् ॥११०॥ मदाविदेहदेशेषु, जातानां ज्ञानयोगिनाम् । सीमंधरप्रभोः प्राप्ति-र्जायते न च संशयः ॥१११॥ सीमंधरोऽस्ति शुद्धाऽऽत्मा; चित्तहिमोत्तरे स्थितः । मानसाख्यसरःपार्वे, सचिदानन्दरूपवान् ॥११२॥ अन्तराऽऽत्माख्यकैलासाज, ज्ञानगंगा प्रजायते । अष्टापदो महानाऽऽत्मा, योगाष्टकप्रधारकः ॥११३॥ आत्मैव सत्ययज्ञोऽस्ति, ज्ञानाग्निस्तत्र वर्तते । कामपशुहविस्तत्र, जायते सत्यभावतः ॥११४॥ आत्मयज्ञे परब्रह्म-साक्षात्कारः प्रजायते । आत्मयज्ञस्य कर्तारो-जैनास्युरधिकारिणः ॥११५॥ अहिंसा सर्वजीवानां, सत्ययज्ञः प्रतिष्ठितः। सत्ययज्ञस्य कारः, साधवास्युः पदे पदे ॥ ११६ ॥ दयापुण्यमया यज्ञा, यद्देशे सन्ति साधवः । तत्र दुष्कालपीडाद्या, जायन्ते न कदाचन ॥११७॥ ब्राह्मणाः सत्यजैनत्वं, प्राप्य मोहपराजयात् । भवन्ति परमाऽऽत्मानो-, जिना विश्वस्य पावकाः॥११८॥
For Private And Personal Use Only