________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४३
Acharya Shri Kailassagarsuri Gyanmandir
आस्तिका अन्तराssत्मानो-जैना जिनेन्द्रवर्त्मगाः । मन आत्मनि संन्यस्य कुर्वन्ति कर्म योगिनः ॥ १६७ ॥ जिनेन्द्रशास्त्रमन्तारः, शासका बहिराऽऽत्मनाम् । सद्गुरोः सेवका दक्षा-चतुर्वर्गस्य साधकाः ॥ १६८ ॥ कर्ता हर्ता च विश्वेशो- जिनेन्द्रोऽर्हन् महाप्रभुः । तद्ध्यानं हृदि कर्तारो - जैनास्ते द्विविधाः स्मृताः ॥ १६९ ॥ भवस्य हेतवो ये ये, ते ते मोक्षस्य हेतवः । भवन्ति ज्ञानिजैनानां, त्यागिनां गृहियोगिनाम् ॥ १७० ॥ पापकर्माsपि पुण्याय, निर्जरायै प्रजायते ज्ञानिजैन समूहस्य, संघधर्मस्य हेतवे ॥ १७१ ॥
T
सम्यग्दृष्टिमनुष्याणां सम्यग्रूपतया जगत् । भासते तो विरुद्धेऽपि, सम्यग्रूपं विभासते ॥ १७२ ॥ सम्यग्दृष्टिप्रतापेन, मिध्यात्वसाधनान्यपि । सम्यक्त्वहेतुरूपेण, परिणामं प्रयान्त्यहो ॥ १७३ ॥ सर्वविषयभोक्ताऽपि, निर्भोक्ता ज्ञानयोगतः । जैन आस्रवकर्ताsपि, संवरी परिणामतः ॥ ९७४ ॥ सम्यग्दृष्टितया जैनाः क्रियावन्तोऽपि निष्क्रियाः । कर्मवन्तोऽप्यकर्माणो, जीवन्ति कर्मयोगिनः ॥ १७५ ॥ साक्षिभावेन जैनानां, सर्वकर्मसु योग्यता । जायते धर्मरक्षार्थ, मापत्काले विशेषतः ॥ १७६ ॥ जैनसंघस्य रक्षार्थ, सर्वजातीयशक्तिभिः । कर्तव्यं सर्वथा जैन - देहादीनां विसर्जनम् ॥ १७७॥ सर्वस्थावरतीर्थेभ्यो - जैन एको महान्स्मृतः । एकजैनस्य रक्षार्थ, प्राणांस्त्याज्या विवेकतः ॥ १७८ ॥
For Private And Personal Use Only