________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
पुण्यात्सुखं दुःखमथोऽस्ति पापाते पुण्यपापे सह चेतसा स्तः । भिन्नं ततश्चाऽऽत्मिकसौख्यमस्ति, तस्मिन्भव श्रेणिकराज लीनः ॥४८॥ पञ्चेन्द्रियाणां च यतोऽस्ति भोगः, स्वज्ञानिनां तत्र भवेदभोगः। जीवेष्वनासक्तितएव भोगाद्, भवेदबन्धो नच लिस आत्मा ॥ ४९ ॥ चेन्मृत्तिका खादति पंचवर्णी, तथापि शङ्खो धवलो हि दृष्टः । कर्मोदयै गचयं च भुञ्जन् , ज्ञानी स्वयं वर्तत आत्मयोगात् ॥ ५० ॥ स्यात्कर्मणां नाशनमाऽऽत्मबोधाज्जडा जडत्वैः परिणामवन्तः । आत्मस्वभावेन भवेनिजात्मा, कदाचिदासक्तिमृते न बन्धः॥५१॥ जलेषु यद्वत्तरकास्तरन्ति, भोगोदधौ ज्ञानिजनास्तरन्ति । स्यात्पूर्वकर्मोदयतश्चभोगस्ततो मिलेत्तादृश एव योगः ॥५२॥ व्यापारतश्चैव यथा विषाणां, लोका म्रियन्ते न तथा च विद्वान् । भोगाँश्च भुञ्जन्नपि लेपशून्यः कदाधिदासक्तिमृते न बन्धः ॥ ५३ ॥
For Private And Personal Use Only