________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
विहाय विद्वेषमनन्यबुद्ध्या, सदाऽनुकूलां समतां भजस्व । तेनैव ते शुद्धमति भवित्री, ततोऽचिरादात्मसुखाऽनुभावः ॥४२॥ शुद्धोभवेद्यत्रनिजाऽऽत्मधर्मोततादयस्तत्र लयं प्रयान्ति । रागोऽस्ति कश्चिन्न निजाऽत्मरूपे, त्यागोऽस्तिकश्चिन्ननिजाऽऽत्मधर्मे ॥ ४३ ॥ त्यागं च वैराग्यमथानुरागं, चित्तोत्थितं वीक्ष्य च जागृहि त्वम् । मनोमृतौ नश्यति चित्तधर्मोंनिजाऽऽत्मरूपं तु विभाति नित्यम् ॥ ४४ ॥ व्रतादितश्चास्ति तु भिन्न आत्मा, निमित्तधर्मोऽपि ततोऽस्ति भिन्नः । आत्माऽस्त्यरूपी सच चिद्घनश्च, वर्णादयः सन्ति न तस्य रूपम् ॥ ४५ ॥ जडेष्वहंभाव उदेति यावत्तावन्न पूर्णा समुदेति शान्तिः । जडेष्वहंभाव उदेति नो चेत्तदा स आत्मा प्रविभाति मुक्तः ॥ ४६॥ अहंक्रियातो भवति भ्रमश्च, ज्ञेयश्चधो निरहं क्रियातः। जडेषु कोप्यस्ति न चाऽऽत्मधर्मी, दुःखं लयं याति निजाऽऽत्मबोधात् ॥४७॥
For Private And Personal Use Only