________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૧૧
कीर्त्यादिसर्व च शुभाशुभं यस्वमोपमं तत्र भवेन्न गर्वः ।
आरोप एष प्रकृतेहिं सर्वः, सर्व तु तद्विद्धि निजाऽऽत्मभिन्नम् ॥ ३६ ॥
हृत्कल्पितो यो व्यवहार एष, ततमाssत्मधर्मे न च विद्धि सारम् ।
Acharya Shri Kailassagarsuri Gyanmandir
चित्तस्य भावा हि शुभाशुभाख्याभिन्नस्वभावो हि ततोऽयमात्मा ॥ ३७ ॥ यच्चेतसारोपितमस्त्य सत्यं, न ज्ञानिनस्तत्र रुदन्ति किञ्चित् । ये कल्पिते दुःखसुखे मनोभिस्ते ज्ञानिनो नाम विदन्ति मिथ्या ॥ ३८ ॥ शुद्धाऽऽत्मका ज्ञानिजना भवन्ति, त्वमाऽऽत्मनः श्रेणिक विद्धि नीतिम् । ये द्वेषरागादिविकल्पकास्तान्, जानीहि संसारनिदानभूतान् ।। ३९ ।। द्वेषस्य रागस्य च बुद्धिभिन्नं, त्वं ज्ञानिनं विद्धि जिनं नरेन्द्र ।
स्याद्वेषरागत्यजनेन सौख्यं, तौचेद्भवेतां न ततोऽस्ति सौख्यम् ॥ ४० ॥ ये रागिणो द्वेषिजनाश्च जीवाः, शक्रादयश्चाऽपि तु पामरा हि । रागोऽस्ति कश्चिन्नच शुद्धरूपे, त्यागो न कश्चिन्निजशुद्धधर्मे ॥ ४१ ॥
For Private And Personal Use Only