________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૧૦
Acharya Shri Kailassagarsuri Gyanmandir
राज्यं तु शुद्धाऽऽत्मनि सत्यमस्ति, त्वं सर्वनीत्या कुरु सर्वकार्यम् । मा रक्षय त्वं परमाणुकांक्षां, स्वस्वादयाssत्मानुभवस्य सौख्यम् ॥ ३० ॥
त्वं,
उद्धारयाऽऽत्मानमिहाऽऽत्मना रागं कुरु स्वाऽऽत्मनि पूर्ण पूर्णम् । अहंत्ववृस्याऽस्ति तु कर्मबन्धोनिमहतः स्यादविनाश आत्मा ॥ ३१ ॥ कालत्रयेऽप्यस्ति स नित्य आत्मा, tarss मा चिदानन्दमयः पवित्रः । एवं त्वमाऽऽत्मानमवेहि बन्धो, स्वतःस्वमुद्धारय भारतेश ॥ ३२ ॥ पूर्णश्चिदानन्दमयः पवित्रो, देहोऽस्त्यनित्यः खलु वस्त्रतुल्यः ।
स्वकर्मरूपं नच पश्य भृप, भ्रान्त्या च कर्मादिकमत्र पश्य ॥ ३३ ॥ भ्रान्तौ गतायां स्वयमस्त्यबन्धः कर्मादिकानां न भवेच्च बन्धः ।
मोहो महीयान् खलु कर्ममूलं, सान्तो गतायां न भवेद्भ्रमश्च ॥ ३४ ॥ मोहे विनष्टे खलु शुद्धआत्मा, बुडोजिनोऽर्हन्प्रभुरस्ति साक्षात् । लिङ्गं न जातिर्भवदाऽऽत्मनोऽस्ति, सर्वस्य विश्वस्य परेश्वरोऽस्ति ॥ ३५ ॥
For Private And Personal Use Only