________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૦૯
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वेषरागप्रशमो यथाऽत्र, तथाऽऽत्मबोधः समुदेति दिव्यः । आत्मस्वरूपे सुखमस्ति नूनं,
सर्वत्र जीवेषु दया भवेच्च ॥ २४ ॥ नश्येत्कषायो खलु यद्यदंशैः । साम्यं भवेदाऽऽत्मनि तत्तदंशैः, सत्त्वादिसर्वप्रकृतो गतायामाऽऽत्मा स्वयं स्यादपवर्गपात्रम् ॥ २५ ॥ उदेति साम्यं हृदि यद्यदंश, स्तर्दशतश्चोपशमोऽपि तत्र । स्वकर्मणां क्षायिकभाव इष्टे, मुक्तिर्भवेदाऽऽत्मनि चित्स्वरूपा ॥ २६ ॥
स्याबाह्यदृष्ट्या खलु कर्मबन्धः स्यादाऽऽत्मदृष्ट्या तु निजाssत्मधर्मः ।
स्यादाऽऽत्मदृष्ट्या न च कर्म किञ्चिदाऽऽत्माऽऽत्मदृष्ट्या प्रविलोक्यमानः ॥ २७ ॥
स्वप्नस्य जाग्रत्सु यथा विनाशस्तथाऽऽत्मबोधेषु च मोहनाशः । यत्राssत्मदृष्टि र्न ततोऽस्ति मोहो, जीवन्विमुक्तोहृदयेऽस्ति वित्तिः ॥ २८ ॥ निजाssत्मना श्रेणिक जागृहि त्वं, जाग्रत्सु सौभाग्य मथास्ति सर्वम् । त्वमाssत्मनोत्तिष्ठ विधूय निद्रां, मामुह्य चित्तेषु लभस्व सौख्यम् ॥ २९ ॥
For Private And Personal Use Only