________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૧૪
Acharya Shri Kailassagarsuri Gyanmandir
अस्त्याssस्मबोधस्य विशालशक्तिः कर्माणि तिष्ठन्ति न चैतदग्रम् ।
दुःखे सुखे चापि विभाति साम्यं, न भोगराशिः समुदेति तत्र ॥ ५४ ॥ कदानिजाऽत्माभिमुखं मनःस्यातदा न भोगुषु रसग्रहः स्यात् । यतो निजाssत्मा परिणामशुद्धः प्रवेद्यते तत्र च पूर्णबुद्धः ॥ ५५ ॥ न मुच्यते ज्ञानिजनस्य भोगो, जन्मान्तरोपार्जितकर्मयोगात् । तथापि भोगेषु न रागरोषौ, स्यातामबन्धश्च पुनस्तदाऽऽत्मा ॥ ५६ ॥ साक्षीन्द्रियेष्वस्ति मनस्सु चाऽऽत्मा, प्रवर्तते स्वे विषये स साक्षी ।
कुर्यात्समग्र तु सलक्ष्यमाऽऽत्मा, प्रवर्ततेऽध्यक्ष मथाऽऽत्ममोदात् ॥ ५७ ॥
अनन्तशक्त्या कर एष आत्मा, वर्तेत निष्काममथोपयोगः । किम्वा भवेन्मोहविषं तदग्रे, ज्ञानी जनश्चेतसि हृष्ट एवं ॥ ५८ ॥ कुर्यात्क्रियां किन्तु न कर्मबन्धोज्ञानिजनो भोग्यपि नैव भोगी । न बध्यते ज्ञानिजनो जडैस्तु, किंस्युर्दिनेशाभिमुखं तमांसि ॥ ५९ ॥
For Private And Personal Use Only