________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
मनोवाकायहिंसादि,-कारकं कर्म यच्च तत् हिंसा ज्ञात्वैव तत्त्याज्यं, सर्वखण्डस्थमानवैः ॥३६९॥ अधर्म्यकामदोषादि-वृद्धि कृत्कर्म यद्भवेत् तत्तु हिंसां प्रविज्ञाय, त्यजन्तु सहयालवः ॥३७०॥ कन्याविक्रयतो हिंसा, वरविक्रयतस्तथा आत्महत्या महाहिंसा, सत्यज्ञानं दयाकरम् ॥३७१॥ हिंसा बन्धाय विज्ञेया, चाऽहिंसा स्वाऽऽत्ममुक्तये हिंसा दुःखाय विज्ञेया, चाऽऽत्मानन्दाय सद्दया ॥३७२॥ दयादानादितः पुण्य-कर्मबन्धो भवेत्खलु पुण्याद् धर्मस्य सामग्री, प्राप्यते पुण्यकर्मभिः ॥३७३॥ शुद्धवायुर्जलं शुद्ध, स्थानं सात्त्विकभोजनम् योग्याहारो विहारश्च, दुष्टव्यसनवर्जनम् ॥३७४॥ प्रकाशो मृत्तिका शुद्धा, भोजनं फलदुग्धयोः देहवीर्यस्य संरक्षा, दीर्घायुहेतवः स्मृताः ॥३७॥ ज्ञात्वैवं धर्मिभिश्चाधि-व्याधिवर्जनहेतवे दयावद्भिर्जगल्लोकाः कतैव्या दीर्घजीविनः ॥३७६॥ स्वाऽऽत्मदया प्रकर्तव्या, दयावद्भिविवेकतः मद्यमादकपेयादि-त्यागेनभव्यमानवैः ॥३७७॥ दीर्घायुः साधनं सर्व, दयैव धर्महेतवे विज्ञायैवं च संसाध्य; दीर्घायुर्जीवने निजम् !!३७८॥ स्वस्य धर्मस्य मोहेन, चाऽशुभमन्यधर्मिणाम् चिन्तितं च कृतं तद्धि, निन्दामि सत्यभावतः ॥३७९॥ स्वाऽन्यव्याधिविनाशाय, स्वाऽन्याधिनाशहेतवे स्वान्योपाधिनिवृत्त्यर्थ, यत्कर्म तद्दया भृशम् ॥३८०॥
For Private And Personal Use Only