________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૦૧
निरुपाधिदशावाँश्च, व्याध्याधिवजितो नरः दीर्घायुष्मान भवत्येव, शुद्धब्रह्माऽधिकारवान् ॥३८॥ आजन्मब्रह्मचर्येण, दीर्घायुर्धारको भवेत् मद्यमांसपरित्यागाद्, दीर्घजीवी भवेन्नरः ॥३८२॥ मनोवाकाययोगानां, दीर्घजीवनहेतवः ते दयार्थ प्रविज्ञाय, दया साध्या दयालुभिः ॥३८३॥ वित्तदेहादिभोगेन, दयाधमैकतत्परैः व्याख्यानादिप्रयन्धेन. यतितव्यं विवेकतः ॥३८४॥ पश्चात्तापादिभावेन, प्रायश्चित्तेन मानवाः हिंसादिपापतः शुद्धा, भवन्ति च दयोद्यताः ॥३८५॥ पक्षपातादिमोहेन, देशनीत्यादिरीतयः मनुष्यैः कल्पितास्तत्र, हिंसादिदोषसंभवः ॥३८॥ क्षुत्तृड्रोगादियुक्तानां, दु:खिनो दुःखनाशने अर्पिता वाङ्मन कायै-देवास्ते देहधारिणः ॥३८७॥ बाह्याऽभ्यन्तरदुःखाना, नाशाय सर्वदेहिनाम् द्रव्यभावदयाथैर्ये, प्रवृत्ता स्तेसुरोत्तमाः ॥३८८॥ कारुण्यभावनाचार-र्जीवन्ति जीविनो हि ते हिंसाचारविचारयें, जीवन्ति ते मृताः खलु ॥३८९॥ दयाद्यर्थ मनो वाणी, काया वित्तं च यस्य ते जीवन्तु देवरूपास्ते, विश्ववत्सलसज्जनाः ॥३९०॥ यदायदा हि विश्वस्मिन् , भृशं हिंसा प्रजायते तदातदा प्रजायन्ते, दयावन्तो जिनादयः ॥३९१॥ हिंसादिपापनाशार्थ-महिंसादिप्रवृदये मोहारिशक्तिनाशाय, प्रभवंति जिनेश्वराः ॥३९२॥
For Private And Personal Use Only