________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावहिंसां विना द्रव्य,-हिंसया भवबन्धनम् नाऽस्ति तत्तु परिज्ञाय, भवन्तु स्वोपयोगिनः ॥३०९॥ कर्मबन्धनमुक्त्यर्थ, माऽऽत्मन स्त्वं दयां कुरु आत्मज्ञानेन स्वाऽन्यानां, दया सत्या प्रकाशते ॥३१०॥ दयां हिंसा न जानाति, मिथ्यादृष्टिरबोधतः दयां हिंसा च जानाति, सम्यग्दृष्टिः सुबोधतः ॥३११॥ सम्यज्ज्ञानी विजानाति, दयां हिंसां च बुद्धितः कुत्र दयाप्यहिंसा स्यात् , हिंसाऽपि कुत्रचिद्दया ॥३१२॥ कुत्रचिवाह्यतोहिंसा, काययोगेन संभवेत्, तथापि भक्तिसेवाद्ये, रहिंसा चान्तरा यतः ॥३१३॥ सद्देवगुरुसंघस्य, रक्षणार्थं च बाह्यतः दोषे सति महाधर्मो, जायन्ते बहुनिर्जराः ॥३१४॥ कायेन नैव हिंसाऽपि, रागद्वेषादिमोहतः मानसिका भवेडिंसा, चाऽन्यघातविचारतः ॥३१५॥ आन्तरा भावहिंसाऽस्ति, द्रव्यहिंसा तु बाह्यतः गीतार्थगुरुबोधेन, स्वाऽधिकारा द्दयां कुरु ॥३१६॥ प्रमादयोगतो हिंसा, स्वाऽन्यप्राणविनाशनात् हिंसाया लक्षणं ह्येत, त्तत्त्वार्थसूत्रभाषितम् ॥३१७॥ सम्यग्दृष्टियुता जैनाः सम्यग्दृष्टिगुणस्थिताः अविरताश्च हिंसाचे, रहिंसादिप्रकांक्षिणः ॥३१८॥ हिंसादौ दोषमन्तारो, हिंसादिदोषहानये उद्युक्ता हि दयालूनां, रक्षार्थ ते प्रवर्तकाः ॥३१९॥ अणुव्रतधरा जैनाः श्रावका द्रव्यभावतः अणुभङ्गेन जीवानां, निरपराधिदेहिनाम् ॥३२०॥
For Private And Personal Use Only