________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૯૬
स्थूलानां हिंसका नैव, स्थूलहिंसाविरामिणः औत्सर्गिकापवादाभ्यां सापेक्षव्रतधारिणः ॥ ३२१ ॥
,
Acharya Shri Kailassagarsuri Gyanmandir
"
सदेवगुरुधर्माणां, संघस्य भक्तिहेतवे
सेवार्थ तस्य रक्षार्थ, मौत्सर्गिकाऽपवादिनः || ३२२|| भक्त्यादिधर्मकार्येषु, हिंसातः कर्मबन्धनम् स्वल्पं च निर्जरा बन्यो, महापुण्यं प्रजायते ॥ ३२३ ॥ अतोगृहस्थिताः श्राद्धा, द्विविधाः स्वाऽधिकारतः देवादिभक्तिरक्षादौ, प्रवर्त्तन्ते यथातथम् ॥ ३२४ ॥ महाव्रतधराः सन्तो, मुक्ता हिंसादिपापतः साधवो विश्वजीवानां त्रातारः सन्ति बन्धवः || ३२५|| औत्सर्गिकाऽपवादाभ्यां धर्मसंघादिरक्षणे विश्वलोकदयाद्यर्थ, प्रवर्त्तन्ते यथातथम् ॥ ३२६॥
द्रव्यभावद्यावन्तः षट्कायजीवपालकाः निर्दोषाssहारपानेन, जीवन्ति च यथातथम् ॥ ३२७॥
गृहस्थत्यागिभेदेन द्विधाधर्मोद्यनादितः सर्वज्ञैर्बोधितः सत्यो, जैनधर्मः प्रवर्त्तते ॥३२८॥ द्रव्यभावीयहिंसातो, विरतिश्वभवेद्यथा तथा प्रवर्त्तनं कार्य, द्रव्यभावदयापरैः ॥ ३२९ ॥ दर्शनज्ञानचारित्र, - मोक्षमार्गानुसारिभिः गृहस्थैस्त्यागिभिहिंसा, संत्याज्या च यथातथम् ॥ ३३० ॥
सर्वविश्वस्थबालानां, विद्याशालासु मानवैः अहिंसाधर्मशिक्षार्थं, - वर्तितव्यं यथातथम् ॥३३१||
हिंसकानां प्रबोधार्थ, सर्वविश्वेषु वर्तिनाम् सर्वजातिप्रबन्धेन, वर्तितव्यं दयालुभिः ॥ ३३२ ॥
For Private And Personal Use Only