________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ex
दुष्काले कच्छसौराष्ट्र, -गुर्जरादिषु मानवाः रक्षिता अन्नदानेन, जगडूशादयालुना ॥ २९७ ॥ इलादुर्गे महाश्रेष्ठी, दुष्काले सर्वरक्षकः अंबावीदासजैनोऽभूत्, तस्याऽस्ति कीर्तिरुत्तमा ॥ २९८ ॥ मंडपे पेथडश्रेष्ठी, जैनो बभूव धर्मवान् क्षुधार्तादिमनुष्येभ्यो, भोजनाद्यं च दत्तवान् ॥ २९९ ॥ अशोको भूपतिः श्रेष्ठः सर्वभूपतिशेखरः तेन दयासमुद्रेण, देशाहिंसा निवारिता ॥ ३००॥ खारवेलेन भूपेन, भारते वर्धिता दयाः सिद्धसेनोपदेशेन, विक्रमेण दया तता ॥ ३०२ ॥ अहिंसा स्थापिता राज्ये, दयामयेन चेतसा स आमभूपतिः श्रेष्ठो, बभूव जैनधर्मिराट् ॥३०२|| अकबरबादशाहेन, भारतदेशचक्रिणा
आर्याणां प्रेमवृद्ध्यर्थ, गवां हिंसा निवारिता ॥ ३०३ ॥ हीरविजयसूरीणां, प्रबोधेनैवसहया यस्याऽऽत्मनि भृशं जाता, सोऽक्बरः कीर्तिमानश्रुतः ॥ ३०४|| यस्य विश्वोपरि प्रेम, तस्य व्यापकसद्दया, दयाहिंसास्वरूपं तु ज्ञानी जानाति वस्तुतः ॥ ३०५ ॥ ज्ञानं पूर्व दया पश्चात्, नाऽस्ति ज्ञानं विना दया ज्ञानी ज्ञानेन जानाति, दयां हिंसां च वस्तुतः ॥ ३०६ ॥ काययोगेन हिंसा तु, केवलिनामपि भवेत् द्रव्यहिंसाsस्ति सादेहान्, न तु भावेन विन्दत ॥ ३०७ ॥ रागद्वेषपरीणामा, हिंसाऽस्ति भावतः खलु रागद्वेषपरीणाम, विना नास्ति हि भावतः ॥ ३०८ ॥
For Private And Personal Use Only