________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकाकारप्रशस्तिः
तच्छिष्या जिनचंद्राख्याः, सूरयो गुणभूरयः । तच्छिष्याभयदेवार्या, गच्छे खरतरेश्वराः ॥ ४॥ येन नवांगी वृत्तिरूपपाति सोपांगवृत्तिविस्तारः । विदधे पञ्चाशकादिवृत्तिर्या बोधवृद्धिकरा ॥ ५ ॥ तत्पट्टे जिनवल्लभ - सुरिजिनदत्तसूरयोऽभूवन् । पट्टानुक्रमभानुर्जातो जिनकुशलसूरिगुरुः || ६ | तेषां वंशे जातो, गुणमणिरत्नाकरो महाभाग्यः । कलिकाल पंकमग्नाँल्लोकान्निस्तारणे धीरः ॥ ७ ॥ श्रीमज्जिन चंद्राहः, सूरिर्नव्यार्कदीधितिप्रतापः । तस्यावदातसंख्या, गण्यते नो सुराधीशैः ॥ ८ ॥ तच्छिष्याः पाठकाः श्रीमत्पुण्यप्रधानसंज्ञिताः । सुमतेः सागराः शिष्यास्तेषां विद्याविशारदाः ॥ ९ ॥ तच्छिष्याः साधुरंगाख्या, राजसाराः सुपाठकाः । सर्वदर्शनशास्त्रार्थ - तत्त्वदेशनतत्पराः ॥ १० ॥ तच्छिष्या ज्ञानधर्माख्याः, पाठकाः परमोत्तमाः । जैनागमरहस्यार्थ -दायका गुणनायकाः ॥ ११ ॥ तेषां शिष्या महापुण्य - कार्यसंसाधनोद्यताः । पाठका दीपचंद्राख्याः, शिष्यवर्गसमन्विताः ॥ १२ ॥ येन शत्रुंजये तीर्थे, कुंथुनाथार्हतः पुनः । चैत्ये समवसरणे, प्रतिष्ठा विहिता वरा ॥ १३ ॥ चतुर्मुखे सोमजिता कृते यः पूर्णतां व्यधात् । प्रतिष्ठां नैकबिंबानां, चक्रे सिद्धाचले गिरौ ॥ १४ ॥ अहम्मदावादमध्ये, सहस्रफणाद्यनेकबिंबानाम् । चैत्यानां च प्रतिष्टां, चकार यो धर्मवृद्धये ॥ १५॥
३३३
For Private And Personal Use Only
४२१