________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
- प्रशस्तिः
संतो हि गुणग्राहका एव, न खलु पुनः मत्सरिणो भवंति, तेन सतां प्रौढानंदकरी एवैषा टीका समाप्ता इति ॥ १५ ॥ ___अत्र सूत्रकृतः श्रीमद्यशोविजयोपाध्यायाः न्यायाचा वाग्वादिनो लब्धवरा दुर्यादिमदाभ्रपटलखंडनपवनोपमाः। तेषां प्रशस्तिःगच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जोतविजयप्राज्ञाः परामैयः। तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशोः, श्रीमन्न्यायविशारदस्य कृतिनामेषा कृतिःप्रीतये १६॥
इत्यध्यात्मज्ञानसारसूत्रं संपूर्णम् ।
(ग्रंथाग्रं २८१ सूत्रसंख्या.) व्या०-गच्छेति।श्री 'विजयदेव' सरिवराणां गच्छे श्री ‘जीतविजय' प्राज्ञाः तेषां सातीर्थ्यधराः श्री 'नयविजय प्राज्ञाः तेषां शिष्येण श्रीमद् “यशोविजयोपाध्यायेन” विहितोऽयं "ज्ञानसाराख्यः” द्वात्रिंशदष्टकप्रमाणो ग्रंथः मूत्रितः। तट्टीका च शुद्धगार्गदर्शकेन श्रीखरतरगच्छीयेन सदुपाध्यायश्रीदीपचंद्राणां शिष्येण देवचंद्रगणिना कृता ज्ञानमंजरी इति श्रेयः ।
स्वप्रशस्ति निवेदयति ( टीकाकारः) नमः स्याद्वादरूपाय, सर्वज्ञाय महात्मने । देवेंद्रवृन्दवन्याय, वीराय विगतारये ॥ १ ॥ श्रीगौतमाद् ज्ञानधरा मुनीशा, देवर्षीिपर्यतममेयोधाः । तेषां सुवंशे वरभास्कराभः, श्रीवर्द्धमानो मुनिराड् बभूव ॥२॥ संवेगरंगशाला-ग्रंथार्थकथनसूत्रधरतुल्यः । मुरिजिनेश्वराख्यः, सिजिविधिसाधने धीरः ॥ ३ ॥
३३२
For Private And Personal Use Only