________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपसंहारः
चारित्रं विरतिः पूर्णा, ज्ञानस्योत्कर्ष एव हि । ज्ञानाद्वैतनये दृष्टिया तद्योगसिद्धये ॥ १२ ॥ ___व्या०-चारित्रमिति । 'पूर्णा विरतिः' चारित्रस्वरूपरमणं तत् ज्ञानस्यैव उत्कर्षः हीति निश्चितं ज्ञेयं ज्ञानस्य उत्कृष्टावस्था चारित्रं ज्ञानकत्वं चारित्रं आत्मनः मूलव्याख्यायां ज्ञानदर्शनगुणद्वयमयत्वमेव । उक्तं च श्रीविशेषावश्यके-उववाई उपांगेऽपि-असरीरा जीवघणा उवउत्ता दंसणेयनाणेहिं " इत्यादिवचनात् । अतः ज्ञाने स्थिरत्वं चारित्रं ज्ञानस्यानंदः सुखं ज्ञानप्रकर्षावबोधः सुखं इति भाष्योक्तेः तथा झानस्यास्वादनं भोगः एवं भावना पृथग्गुणानां भावनापि विशेषावश्यके “ यतः चारित्रज्ञानादयः पृथग्गुणा इच्छंति ।” इत्यादिकं तेन अत्रोपयोगमयस्यात्मनः ज्ञानं मुख्यं तेनोच्यते ज्ञानाद्वैतनये ज्ञानवात्मा ज्ञानमेव साध्यं ज्ञाननिरावरणता सिद्धिः, एवं दृष्टिः देया, किमर्थ ? तद्योगसिद्धये, ज्ञानयोगस्य सिद्ध्यर्थं निष्पत्त्यर्थ अतः ज्ञानपूर्विका क्रिया हिता, तेन ज्ञाने स्पर्शाख्ये महान् अभ्यासो विधेयः इति रहस्यं । ज्ञानत्यागे न सिद्धिः सर्वत्र साधने ज्ञानमेव प्रधान इति ज्ञानसारस्यार्थितया भवितव्यम् ॥१२॥
अथ श्रीमद्यशोविजयोपाध्यायैः एतद् ज्ञानसाराभि शास्त्रं रचितं तत्क्षेत्रादिप्रतिपादकं वृत्तमुच्यते--- सिद्धिं सिद्धपुरे पुरन्दरपुरस्पर्धावहे लब्धवान्, चिद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि। एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणा तेस्तैर्दीपशतैः सुनिश्चयमतैनित्योऽस्तु दीपोत्सवः ॥१३॥
२२८
For Private And Personal Use Only