________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
४१५
मुनीनां अल्पश्रुतवतां आहारादिसंज्ञास्ति, बहुश्रुतानां आहारादिसंज्ञानिषेध इति सर्वत्र योज्यम् ॥ ९ ॥ ज्ञानपूर्ता परेऽप्याहुः, क्रियां हेमघटोपमाम् । युक्तं तदपि तद्भावं, न यद् भग्नापि सोज्झति ॥१०॥
व्या०-ज्ञानपूतामिति । 'ज्ञानपूतां ' ज्ञानेन पवित्रां क्रियां शुभयोगव्यापारात्मकां 'हेमवटोपमा' सुवर्णकलशसदृशां, ‘परेऽपि' अन्ययूथिका अपि आहुः, एतत् युक्तं तदपि हेमघटे भग्ने अपि तद्भावं हेममौल्यं न उज्झति, तथा सद्ज्ञानयुक्ता क्रिया ततः पतितस्य भग्नस्यापि नाधिकस्थितिबंधः “बंधेण न बोलई कयावि” इति वचनात् । ज्ञानी क्रियायुक्तः स्थितिक्षयं करोति ततः पतितोऽपि तत स्थितिस्थानं नातिक्रमति; अतः ज्ञानपूर्वका एव । तथा च उपपातिकोपांगे मिथ्यादृष्टिः एकांतेन द्रव्ययतिलिंगक्रिया युक्तः नवमौवेयकांतं गच्छति, तथापि स्थितौ पूर्णबंधक एव सम्या प्रतिपत्तौ तत्पतितोऽपि मिथ्यात्वभावं गतोऽपि एककोटाकोट्यंतरस्थितिं बध्नाति नाधिकां बधाति अतः ज्ञानस्याधिकत्वम् ॥ १० ॥
पुनः दृढयति-- क्रियाशून्यं च यद् ज्ञानं, ज्ञानशून्या च या क्रिया। अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥ ११ ॥ ___व्या०-क्रियाशून्यमिति । 'यद् ज्ञानं' तत्त्वावबोधः सत्स्वसंवेदनरूपं 'क्रियाशून्य' द्रव्यक्रिया आस्रवरोधनात्मिका तया शून्यं च पुनः क्रिया 'ज्ञानशून्या' तयोः अंतरं भानुखद्योतयोरिव ज्ञेयं, भानुतुल्यं ज्ञानं, खद्योतप्रकाशतुल्या क्रिया ज्ञानशून्या ज्ञेया इति ॥ ११ ॥
२२७
For Private And Personal Use Only