________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
४१७
व्या० - सिद्धिं सिद्धपुरे इति । अयं ग्रंथः सिद्धपुरे नगरे सूत्ररचनया सिद्धिं लब्धवान् 'उदारसारम्हसा' प्रधानसारतेजसा 'दीपोत्सवे पर्वणि' दीपालिकादिने संपूर्णतां गतः, कथंभूतोऽयं ग्रंथः ? 'चिदीपः ' ज्ञानप्रदीपः एतद्भावनभावपावनमनश्चंचच्चमत्कारिणां जीवानां एतस्य ग्रंथस्य भावना आत्मतन्मयता तस्या भावा अर्थप्राप्तसमव्यवसायाः तैः 'पावनं' पवित्रं 'मन' चित्तं तत्र चचन् मनोहारी चमत्कारो येषां ते तेषां तैः तैः निर्मलोपयोगलक्षणैः दीपशतैः सुष्ठु निश्चयो वस्तुधर्मः तस्य यद् ज्ञानं तदेव मतं इष्टं तैः तेषां ज्ञानचमत्कारिणां दीपोत्सवः नित्यः निरंतरः अस्तु भवतु, इत्यनेन यथार्थज्ञानगृहीतात्मरसमग्रानां नित्यं दीपोत्सव एवास्ति ॥ १३ ॥ केषांचिद्विपयज्वरातुरमहो चित्तं परेषां विषावेगोदर्क कुतर्कमूर्च्छितमथान्येषां कुवैराग्यतः । लग्नालर्कमबोधकूपपतितं चास्तेऽपरेषामपि, स्तोकानां तु विकारभाररहितं तद् ज्ञानसाराश्रितम् ॥ १४ ॥
For Private And Personal Use Only
9
व्या० - केषांचिदिति । 'अहो' इति आश्चर्ये, केषांचिज्जीवानां 'चित्तं ' मनः 'विषया' इंद्रियामिलाषा एव ज्वरः तेन 'आतुरं' क्लिष्टं अस्ति । पुनः परेषां केषांचित् मनः 'विषावेगः' इति विषस्य मिथ्यात्वस्य ' आवेगः' त्वरा तस्य 'उदर्कः ' उदयः तेन 'मूर्छितं ' व्याकुलीभूतं अस्ति, अन्येषां जीवानां 'कुवैराग्यतः' दुःखगर्भमोह गर्भ वैराग्यतः 'लग्नालर्क' लग्नः आलर्कः 'हडकवाय ' इति लोकभाषा यस्य तत् मनः अस्ति । च पुनः अपरेषां कुगुरुवाहितानां कुबोधपतितं कुज्ञानपतितं मनः अस्ति । तु
53
२२९