________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
४०७
व्या०-श्रेयः सर्वेति । धर्मगदतः कंठतालुशोषणमात्रः शुष्कवादः यथार्थताशून्यः कपायोपटभत्वात् त्याज्यः, परपक्षपराजयबुख्या स्वपक्षस्थापनपुरःसरः विवादः, सोऽपि हेयः, तत्त्वज्ञानी परस्परतत्वावबोधाय तत्त्वार्थिनं प्रति यद्वदति स धर्मवादः, सर्वनयज्ञानवान् धर्मवादतः वक्ता तत्वकथनरसिकः, इति श्रोता च तत्त्वज्ञानरसिक उपयोयथार्थयोगे धर्मकथनतः विपुलं श्रेयः कल्याणं यदि च न श्रोता ताहक तथापि तत्वबोधनेच्छया धर्मकथनं हिताय, च पुनः ष्कवादात् च पुनः विवादात् परेषां एकांतदृष्टीनां विपर्ययः अश्रेयः अकल्यागं, सूक्ष्मार्थकथनं पात्रयोग्यतया धर्महितकरणं तु भावानुकंपा ॥ ५ ॥
अथ सन्मार्गप्रशंसनामाहप्रकाशितं जनाना मत सर्वनयाश्रितम् । चित्ते परिषद, येषां तेभ्यो नमो नमः ॥६॥ ____ व्या०-प्रकाशित मिति । यैः सर्वज्ञाचार्योपाध्यायैः सम्यग्दर्शनज्ञानचारित्रपरिणतैः श्रीहरिभादिभिः संविग्नपाक्षिकैः यथार्थोपदेशकैः सर्वनयाश्रितं सर्वनयसापेक्षं स्याद्वादर्भितं मतं इष्टं शासनं मोक्षांगरूपं प्रकाशितं तेभ्यो नमः । शुद्धोपदेशका एव विश्वे प्रयाः । उक्तं च भवभावनायां--
भगमरसुआगं, बहुजणसंदेहपुच्छणिज्जाणं । उज्जोइअभुवणाणं, झाणमविकेवलं मयंके ॥ १ ॥ ते पुज्जा जिअलोए, सव्वत्यवि जाण निम्मलं नाणं ।
पुज्जाणवि पुज्जयरा, नाणी चारित्तजुत्ता य ॥२॥ तथा उपदेशमालायाम्--
For Private And Personal Use Only