________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०६
सर्वनयाश्रयणाष्टकम्.
पुनः हेमाचार्यैः ।
तत्रापि न च द्वेषः, कार्यों विषयस्तु यत्रतो मृग्यः ।
तस्यापि सद्वचनं, सर्व च यत्प्रवचनादन्यत् ॥ १ ॥ इति विचार्य स्याद्वादोपयोगिसर्वनयज्ञता कार्या पुनः साम्यमवलंबनीयं पक्षपरिहारेण आत्मधर्मनिष्ठता हिता ॥ ३ ॥ लोके सर्वनयज्ञानं, ताटस्थ्यं वाप्यनुग्रहः । स्यात्पृथङ् नयमूढानां, स्मयार्तिर्वाप्यतिग्रहः ॥ ४ ॥
व्या०-लोके सर्वेति । 'लोके दक्षजनसमूहे 'नयज्ञानां सर्वनयरहस्यविज्ञानां 'ताटस्थ्य' तटस्थत्वं पार्श्ववर्तित्वं, 'वा इति व्यवस्थायां । 'अपि' समुच्चये, 'अनुग्रहः' उपकाराय भवति, सर्वत्र परीक्षकत्वं हितं, पृथङ्नयमूढानां एकैकनयपक्षग्रहवर्तिनां स्मयार्तिः मानोन्मादपीडा वा अथवा अतिग्रहः कदाग्रहः स्यात् भवति । उक्तं च--
कालो सहाव नियइ, पुवकयं पुरिसकारणे पंच । समवाये सम्मत्तं, एगंते होई मिच्छत्तं ॥१॥
अत्र पुरुषाकारस्य उपादानकारणत्वात् मुख्यत्वं, कालस्वभावपूर्वकृतां तु निमित्तासाधारणापेक्षया कारणत्वं, नियतेश्च कारणत्वं औपचारिकं, अस्या अनित्यत्वं विचारामृतसंग्रहे उक्तमस्ति, इति नियतपक्ष आजीविकानां मिथ्याग्रहरूपः न जैनानां, एवं अंशस्यापि जैनमार्गे विवक्षितत्वात् समुच्चयवचनं ॥ ४ ॥
एवं सापेक्षा श्रमा कार्या इत्युपदिशन्नाहश्रेयः सर्वनयज्ञानं, विपुलं धर्मवादतः । शुष्कवादविवादाच्च, परेषां तु विपर्ययः ॥ ५ ॥
For Private And Personal Use Only