________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०२
सर्वनयाश्रयणाष्टकम् .
दुर्लभः असंख्येयसमयेनापि देशज्ञायकत्वात्, तस्य ज्ञानं गौणमुख्यतारूपेण प्रवर्त्तते । उक्तं च तचाबें- "अर्पितानर्पित सिद्धेः” सूत्रस्य व्याख्याने, सर्वज्ञानां तु सर्वमपि एकसमयेनैव ज्ञातत्वात् गौणमुख्यताज्ञानं वचसि क्रमवर्तित्वाद् भवति एवं न्यूनशक्त्या गौमुख्यत्वं न रागद्वेषपरिणत्या रागद्वेषपरिणामो बंधहेतुः, अतो नयस्वरूपेण यथार्थबोधाय वस्तुविवेचनं हितं न रक्तद्विष्टता तेन ज्ञानसाम्यं करणीयं ज्ञानसाम्यमेव चारित्रं तदर्थमेव निरूपयतिधावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥ १ ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
व्या० - धावतोऽपि नया इति । सर्वे नयाः 'चावंतः ' स्वस्वपक्षस्थापनपुरःसरा अपि 'भावे शुद्धात्मधर्मणि कृतविश्रामाः स्युः स्थिरा भवंति, अतो मुनिः ' चारित्रगुणलीनः ' चयरिक्तीकरणं चारित्रं तदेव गुणः तत्र लीनः वर्द्धमानपर्यायः 'सर्वनयाश्रितः' स्यात् द्रव्यनये कारणग्राहके भावनये तत्कार्यत्वग्राहके ' क्रियानये साधनोद्यमरूपे ज्ञाननये तद्विश्रामरूपे 'आश्रितः' आसक्तः स्यात् भवेत् इत्यर्थः । उक्तं चानुयोगनारे-
"
ससि पि नयाणं बहुविहवत्तव्वयं निसामित्ता | जं सव्वनयविद्धं तं चरणगुणओि साहू ॥ १ ॥ अत उक्तं श्रीभगवतीटीकायां
" जइ जिणमयं पवज्जह, ता मा विवहारनिच्छए सुबह । ववहारनओच्छेए तित्थुच्छेओजओ
२५
अतः साम्यं हितं ।
पुनस्तदेव द्रढयति-
२१४
For Private And Personal Use Only